सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्
ननु 'विपराभ्यां जेः' इत्यात्मनेपदम् परा सेना जयतीत्यर्थके 'पराजयति सेने'त्यत्र प्राप्नोतीत्यत आह -
सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्।११२।
तेन विशब्दसाहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भाष्ये स्पष्टम्। सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते। 'रामलक्ष्मणावि'त्यादावपि सादृश्यमेव नियामकम्। सदृशयोरेव सहविवक्षा तयोरेव सहप्रयोग इत्युत्सर्गाच्च। ध्वनितं चेदं 'कर्मप्रवचनीययुक्ते द्वितीया' इति सूत्रे भाष्ये। तत्र हि 'पञ्चम्यपाङ्परिभिः' इति सूत्रेण लक्षणादिद्योतकपरियोगे पञ्चमीमाशङ्क्ययद्यप्ययं परिदृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयस्तस्य कोऽन्यः सहायो भवितुमर्हत्यन्यो वर्जनार्थाद्, यथाऽस्य गोः सहायेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ' इत्युक्तम्। तेन हि सदृशानामेव प्रयोगे सहायभावो बोधितः। 'द्विस्त्रिश्चतुरि'ति सूत्रे साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे. सिद्धे कृत्वोऽर्थग्रहणादेषानित्या। तेन 'दीधीवेवीटाम्' इत्यत्र धातुसाहचर्येऽप्यागमस्येटो ग्रहणमित्यन्यत्र विस्तरः॥११२॥
कामाख्या
साहाचर्यादिति । न च पक्षिवाचकस्यापि वेः सत्वेन कथमुपसर्गस्यैव ग्रहणमिति वाच्यम्। पराशब्दसाहचर्यात् पक्षिवाचकभिन्नस्यैव वेर्ग्रहणन्तादृशवेश्चोपसर्गस्यैव सत्त्वेन। तत्साहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति परस्परसाहचर्ये एव तात्पर्यात्। रामलक्ष्मणावित्यादावपि रामसाहचर्याद् दुर्योधनापत्यभिन्नबोधको लक्ष्मणशब्दो दुर्योधनापत्यभिन्नश्च लक्ष्मणपदबोध्यो दाशरथिरेवेति तत्साहचर्याद् रामबोध्योऽपि दाशरथिरेव न परशुरामादिरिति परस्परसाहचर्यमेव। सहचरितस्यैवेति। सदृशासदृशयोः सदृस्यैव ग्रहणमित्यर्थः। अत्र च बीजं सहचरितस्य शक्तिज्ञानाधीनोपस्थितिः सादृश्यज्ञानाधीनोपस्थितिस्थितश्चैत्युपस्थितिद्वयम्। ध्वनितञ्चेदमिति। सदृशयोरेव सहप्रयोग इत्येतत्। दृष्टापचारः। अनियतार्थकः। अनित्यत्वे ज्ञापकमाह। द्विस्त्रीत्यादि। चिन्त्यमिदम्। 'दीधीवेवीटा'मित्यत्र हलनुबन्धकत्वेन साहचर्येण आगमस्यैव ग्रहणात्, नहि धातुत्वेनैव साहचर्यं ग्राह्यम्, न हलनुबन्धकत्वेनेति राजाज्ञास्ति। अनित्यत्वे विशेषफलाभावाच्च। कृत्वोऽर्थग्रहणन्तु सुजन्तत्वेनैव साहचर्यं न त्वन्येनेत्यर्थबोधनद्वारा स्पष्टार्थमेवेति केचिदाहुरित्यन्यत् सुगमम्॥११२॥
नास्ति।