Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते

पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते।१२४।

तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम्॥१२४॥

 

 

                      कामाख्या

पर्यायेति। वेति वक्तव्ये कृतस्यान्यतरस्यामित्यादेर्वैयर्थ्येन परिभाषाज्ञापकत्वं सुलभम्॥१२४॥

 

                         परिभाषार्थमञ्जरी

         चर्चा नाद्रीयत इति। ननु 'अष्टाभ्य औशि'ति सूत्रे अष्टभ्य इति वा अष्टाभ्य इति वा करणे लाघवगौरवाभावसूचितम्। तयो:  पर्यायवाचकत्वात्। अष्टन्शब्दस्यैव शब्दद्वयेनोपास्थितेः। पर्य्यायत्वं चैकशक्यतावच्छेदकानाक्रान्तार्थप्रत्यायकत्वमेव। एवञ्च दीर्घग्रहणेनैवात्वस्य वैकल्पिकतया लाघवादात्वमकृत्वा निर्देशे कर्त्तव्ये तद्विशिष्टनिर्देशेन जश्शसोरात्वमनुमीयत इति आत्वसाधकग्रन्थासङ्गतिः। न च वयं सूत्रे गौरवलाघवेनैतादृशमर्थं कल्पयामः। किन्त्वात्वस्य वैकल्पिकतया प्रक्रियालाघवाय तथानुकरणे कर्तव्येऽन्यथानुकरणेनायमर्थो ज्ञाप्यत इति वाच्यम्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देश इति ज्ञापकमुपपादयताऽस्यार्थस्य दूरतस्त्यक्तत्वात्। न चैकदेशविकारे न क्वापि पर्यायता दृष्टेति वाच्यम्। बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इत्यादौ तस्य प्रसिद्धत्वात्। स्त्रियां मूर्तिस्तनुस्तनूरित्यादौ दृष्टत्वाच्च। न च तत्र शिष्टप्रयोगेन तथा कल्प्यत इति वाच्यम्। अष्टभ्य इति वक्तव्येऽष्टाभ्य इति दीर्घाकारविशिष्टानुकरणेनाभिमतोऽर्थो लभ्यते इति वदद्भिस्तयोः पर्य्यायताबोधनात्। एवञ्चैतद्भाष्यात्परिभाषाया असत्वमेवायाति। अन्यतरस्यां विभाषेत्यादौ गतिस्तुतिसृभ्य इति बहुवचनवद् बोध्येति चेन्न। भाष्योक्तरीत्या दोषाभावात्। तथाहि 'अष्टाभ्य' इति सूत्रे भाष्येऽथेहे कस्मान्न भवति। औश्त्वम्। अष्ट तिष्ठन्ति। इत्याशङ्क्य आत्वं यत्र तत्रौश्त्वम्। तथा ह्यस्य ग्रहः कृतः एतदेव ज्ञापयति आचार्यो विभाषा आत्वमिति। यदयमात्वभूतस्य ग्रहणं करोति अष्टाभ्य इति। अन्यथाऽष्टन् इत्येव ब्रूयात् इत्युक्तम्।

तस्यायमाशयः - 'अष्टन आ विभक्तावि'त्यनेन हलादौ परत आत्वविधानादजादौ तत्प्राप्त्यभावेनाष्टन औशित्येव  न्यासे कर्तव्ये आत्वविशिष्टन्यासस्येदमेव प्रयोजनमात्वभूतस्यैव स्यात् नान्यत्र। तस्यात्वस्य हलादावेव विधानादप्राप्तस्य जश्शसो रनुमीयमानमात्वम्। एवमपि व्यवच्छेद्यासंभवादात्वस्य वैकल्पिकत्वमपि ज्ञाप्यते। एवञ्च नास्माद्भाष्यात् लाघवात्तथा कर्तव्ये गौरवात्तद्व्या[1]करणमनुमापकमित्यायाति। तेन परिभाषाया असत्वं स्यात्। किञ्चाष्टन अष्टा इत्यनयोरनुकरणयोः क्रमेणाष्टनाष्टा इत्युभयोस्थापकत्वेन शक्यतावच्छेदकैक्याभावाच्च। अष्टभ्य इति वक्तव्ये अन्यथाकरणं ज्ञापकमित्यादिप्राचीनग्रंथाः परास्ताः। न च गौणव्यावृत्तयेऽष्टभ्य इति वक्तव्य अष्टन इत्युक्तिरनुचितेति भाष्योदाहरणे वाच्यम्। एतद्भाष्यात् 'ष्यान्ते'ति सूत्रभाष्याच्च तेषामनभिधानमिति[2] दिक्॥१२४॥

 


[1] तथाकरणम् इति गे

[2] अनभिधानमेवेति दिक् इति गे

पूर्व परिभाषा में योगविभाग का उल्लेख हुआ है ।   योगविभाग जहाँ होता है वहाँ वाक्यभेद, पूर्वयोग का अनित्यत्व आदि गौरव होता है । इसी प्रकार का गौरव अन्यत्र भी अङ्गीकृत होता है, इस बात की सूचक परिभाषा का उल्लेख करते हुए कह रहे हैं -

पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते ।। १२४ ॥

पर्यायवाचक शब्दों के बीच लाघव और गौरव की चर्चा का आदर नहीं होता । अर्थात् पर्यायवाची शब्दों में क्या लाघव है और क्या गौरव है यह विचार नहीं. किया जाता है ।

तत्र तत्रान्यतरस्यां विभाषा वेति सूत्रनिर्देशज्ञापितमिदम् ॥ १२४ ॥ 

तत्तत्सूत्रों में 'वा' 'विभाषा' 'अन्यतरस्याम्' ये निर्देश इस परिभाषा के ज्ञापक हैं । ऊपर लिखे गये तीनों शब्द विकल्पार्थक हैं । इनमें लाघवात् 'वा' शब्द का पाठ ही सब जगह करना उचित था, किन्तु कहीं तो 'विभाषा' शब्द का पाठ किया गया है. और कहीं 'अन्यतरस्याम्' शब्द का पाठ किया गया है ।  इससे सिद्ध होता है कि जो शब्द पर्यायवाची होते हैं उनसे लाघवगौरव का विचार नहीं होता । निष्कर्ष यह निकला कि पर्याय शब्दों में उच्चारण गौरव होने पर भी अर्थान्तरकल्पना का आग्रह नहीं करना चाहिये ॥ १२४ ॥