Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

पुनः प्रसङ्गविज्ञानात्सिद्धम्


नन्वेवं 'भिन्धी'त्यत्र परत्वात् तातङा बाधितो धिर्न स्यादत आह -

पुनः प्रसङ्गविज्ञानात्सिद्धम्।३९।

 


कामाख्या

नन्वेवमिति। परशास्त्रेणपूर्वशास्त्रस्य बाधकल्पने धिर्न्न स्यादिति। अयं भावः- धिभावं बाधित्वा परत्वात् तातङि, 'तातङादेः स्थानिवत्वप्रतिषेधो वक्तव्य' इति वार्तिकेन स्थानिवत्वनिषेधात् भिन्तादित्येव रूपं स्यात्। न च तातङो वैकल्पिकत्वेन तदभावे धिभावसिद्धिरिति वाच्यम्। विकल्पशास्त्रेण भावाभावयोर्विधानात् तातङा इव तदभावेनापि परत्वाद्बाधितस्य धेरसम्भवत्वादिति। अत्र केचित् अप्राप्तविभाषास्थलेऽभावस्य सिद्धतया भावमात्रस्यैव अपूर्वबोध्यत्वेन विधेयत्वम्। अत एव 'मुचोऽकर्मकस्य गुणो वे'त्यनेन भावमात्रस्यैव विधानात्। मुमुक्षते वत्सः स्वयमेवेत्यत्र। 'अत्र लोपोऽभ्यासस्ये'ति लोपो न। एवं च भिन्धकीत्यत्र परत्वाद्धिना बाधितोऽकच् न स्यादित्यवतरणमाहुः। अकचः कुत्सानिमित्तकत्वेन बहिरङ्गतया तुल्यबलत्वाभावेन विप्रतिषेधशास्त्राप्रवृत्त्योक्तरूपसंभवात्। एवं च भिन्धीति भिन्तादित्यस्योपलक्षणम्। तत्र धिभावं बाधित्वा परत्वात् तातङि धिभावाप्राप्त्या 'तातङादेः स्थानिवत्वप्रतिषेधो वक्तव्य' इति वार्तिकस्य वैयर्थ्यं स्यादित्याशयकमवतरणमित्याहुः। श्रीमद्गुरुचरणास्तु - तिसृणामित्यत्र परत्वात्तिस्रादेशेन बाधितो नुट् न स्यादित्यवतरणं संगतमित्याहुः। पुनः प्रसंगेति। प्रसङ्गेति लुप्तसप्तम्यन्तम्। पुनः प्रसङ्गे प्राप्तौ सत्यां विधानं शास्त्रप्रवृत्तिरिति परिभाषार्थः। अत्र स्वप्रवृत्तियोग्यातिरिक्तत्वेनैव संकोच इति फलितम्। विज्ञानमिति प्रथमान्तमेव। परिभाषास्वरूपम् अधिकन्तु समाधानरूपम्॥३९॥


परिभाषार्थमञ्जरी

नन्वेवं भिन्धीत्यत्रेति। नन्वेवं भिन्धकीत्यत्र परत्वाद्धिना बाधितोऽकच् न स्यादिति पाठ:[1]। अत एव 'अचश्चे'ति सूत्रस्थ-यत्र हि पूर्व्वो विधिः[2] परेण बाधते तत्र पुन: प्रसङ्गविज्ञानमिति कैयटस्थ यत्र हीति प्रतीकमादाय यथा भिन्धकीत्यत्र परत्त्वाद्धौ कृते पुन: प्रसङ्गविज्ञानादकच इति विवरणं संगच्छते। एतेन सकृद्गतिन्यायाश्रयणे भिन्धीत्यत्र परत्त्वात्तातङा बाधितो धिर्न्न स्यादिति शेखरोक्तमिष्टापत्तिग्रासात् स्थानिवत्सूत्रभाष्याननुगुणत्वाच्च बालप्रतारणमात्रमिति मन्तव्यम्। भिन्धीत्यादेस्तातङाभावपक्षे सिद्धत्वादिति दूषयन्तः कैयटानुगाः बालप्रतारणविषयत्वं प्रापिता:॥३९॥

[1]आहुरिति गपुस्तके अधिकः पाठः।

[2]विधिः परं न बाधते इति के,खे