Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव


नन्वेवम् 'तिसृणाम्' इत्यत्र परत्वात् तिस्रादेशे पुनस्त्रयादेशः स्यादत आह-

सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव।४०।

तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोः कार्ययोरसम्भवेन बाधकाभावात्पर्यायेण तृजादिवच्छास्त्रद्वयप्रसङ्गे नियमार्थं विप्रतिषेधसूत्रमिति सकृद्गतिन्यायसिद्धिः। यथा तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति। यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये, तदोभयोर्न करोति यौगपद्यासम्भवात्। तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौगपद्येन प्रवृत्त्यसम्भवादप्रतिपत्तौ प्राप्तायामिदं परविध्यर्थम्। तत्र कृते यदि पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति पुनःप्रसङ्गविज्ञानसिद्धिरिति विप्रतिषेधसूत्रे भाष्ये स्पष्टम्। यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि शास्त्रयोस्तल्लक्ष्यविषययोरचरितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति 'सकृद्गति'न्यायसिद्धिः। अत्र पक्षे एतन्नियमवशादेतल्लक्ष्यविषयकपूर्वशास्त्रानुपप्लव एव। जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः 'सत्प्रतिपक्ष'न्यायेन युगदुभयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनःप्रसङ्गविज्ञानसिद्धिरित्याहुः। तन्न, व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति न जातिपक्ष इत्यत्र मानाभावात्। 'न ब्राह्मणं हन्याद्' इत्यादौ जात्याश्रयसकलव्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भाष्ये दर्शनात्। अत एव 'सरूप'सूत्रे भाष्ये जातौ पदार्थेऽनवयवेन साकल्येन विधिप्रवृत्तेः गौरनुबन्ध्य इत्यादौ सकलगवानुबन्धनासम्भवात्कर्मणो वैगुण्यमुक्तम्। द्रव्यवादे चासर्वद्रव्यावगते 'गौरनुबन्ध्य' इत्यादावेकः शास्त्रोक्तोऽपरोऽशास्त्रोक्त इत्युक्तम्। किञ्च न हि भाष्योक्ततृजादिदृष्टान्तस्य व्यक्तिपक्ष एव सर्वविषयत्वं न जातिपक्ष इत्यत्र मानमस्ति। अपि च व्यक्तिपक्षेऽप्यन्यव्यक्तिरूपविषयलाभेन चरितार्थयोरियं व्यक्तिविरोधात् स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्। जातिपक्षेऽपि तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव नैतद्व्यक्तिविषयकत्वमित्यत्र विनिगमकाभावः। तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृष्टान्ताश्रयणम्, क्वचिल्लौकिकदृष्टान्ताश्रयणमिति भाष्यसम्मतमार्ग एव युक्त इति बोध्यम्। द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेधशास्त्रोपयोगी। इदम् 'इको गुण' इति सूत्रे कैयटे स्पष्टम्। यथा 'शिष्टात्' इत्यादौ तातङ्शाभावयोर्युगपत्प्रवृत्तौ स्वस्वनिमित्तानन्तर्यासम्भवः। यद्यपि तातङादेः स्थानिवद्भवेनास्त्येव तत्, तथाप्यादेशप्रवृत्युत्तरमेव सः, न तु तत्प्रवृत्तिकाले। एवं नुम्तृज्वत्त्वयोः 'प्रियक्रोष्टूनि' इत्यादौ युगपदसम्भवः, 'यदागमाः' इत्यस्य नुम्प्रवृत्युत्तरं प्रवृत्तः। एवम् 'भिन्धि' इत्यत्र तातङ्धिभावयोर्युगपदेकस्थानि-सम्बन्धस्याङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः। नुम्नुटोरपि नुट्यजादिविभक्त्यानन्तर्यबाधः, नुमि ह्रस्वन्ताङ्गबाध इत्यसम्भवाद् विप्रतिषेधः। क्वचिदिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं कार्यमित्यर्थात्पूर्वमेव भवति। तेन 'सर्वे पूर्वविप्रतिषेधाः सङ्गृहीताः' इति 'स्वरितेन' इति सूत्रे भाष्ये। विप्रतिषेधसूत्रस्थपरशब्दस्येष्टवाचित्वात् तत्सङ्ग्रह इति विप्रतिषेधसूत्रे भाष्ये॥४०॥

 


कामाख्या

नन्वेवमिति। बाधके प्रवृत्ते बाध्यस्य प्रवृत्तिस्वीकारे त्रयादेशः स्यादिति। स्थानिवद्भावेन त्रिशब्दत्वादिति शेषः। 'त्रयादेशे स्रन्तस्य स्थानिवत्वप्रतिषेधो वक्तव्य' इति वार्तिकस्य 'सकृद्गतावि'ति न्यायेन प्रत्याख्यानमिति न तद्विरोधः। विप्रतिषेधे सति सकृद् = एकवारं यद्बाधितं, तत् गतौ = प्राप्तौ सत्यामपि बाधितमेव न प्रवर्तत इति परिभाषार्थः। लक्ष्यानुरोधाद् द्वावपि न्यायौ व्यवस्थितौ। तयोः सिद्धिप्रकारमाह तत्रेतिपर्यायेणेति। यथा 'ण्वुल्तृचावि'ति पर्यायेण भवतस्तथा रामेभ्य इत्यत्रैत्वदीर्घयोः पर्यायेण प्रसङ्गे इति भावः। न च विधेयशून्यस्य पच्पठित्यादेः कदाचित्साधुत्वाभावायविधेये प्रत्ययः परो भवत्येवेति नियमबलात् स्वोद्देश्यतावच्छेदकावच्छेदेन व्यापकत्वमवस्यमङ्गीकार्यम्। एवं च पर्यायेणेति कथनमसंगतमिति वाच्यम्। विधेयद्वयविधानसामर्थ्यादन्यतरत्वेन व्यापकत्व-स्वीकारेणादोषात्। नियमार्थमिति।

विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति।

तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते।। इति

बलात् परकार्यरूपविधेयस्य पाक्षिकप्राप्तिरूपस्य नियमत्वप्रयोजकस्य सत्वादिति भावः। परमेव न पूर्व इति नियमाकारः। अप्रतिपत्तौ प्राप्तायामिति शास्त्रप्रवृत्तिरूपाप्रतिपत्तिः। परविध्यर्थम्। विधिरत्यन्तमप्राप्तावित्युक्तेः परं प्रवर्तते इति विधिः। कैयटादिरीत्या न्यायद्वयसिद्धिमनूद्य खण्डयति यत्वितिव्यक्तौ पदार्थे। व्यक्तिः पदानां वाच्येति मते व्यक्तेरानन्त्यादेकस्यां व्यक्तौ कार्यविधानेन शास्त्रस्य चारितार्थ्याद्व्यक्तन्तरे कार्यं न स्यादिति प्रतिलक्ष्यं लक्षणोपप्लवकल्पनादिति भावः। सत्प्रतिपक्षन्यायेन। प्रकृतसाध्यविरोधिसाध्यविरोधसाध्यसाधकहेतुमत्पक्षः सत्प्रतिपक्षः। यथा सत्प्रतिपक्षस्थले विरोधात् कस्यापि साध्यस्य अनुमितिर्न तथात्रापि परस्परप्रतिबन्धात् कस्यापि शास्त्रस्य प्रवृत्तिर्न स्यादिति भावः। सर्वलक्ष्यमिति।शास्त्रं कर्तृ लक्ष्यं कर्म न ब्राह्मणं हन्यादिति। अत्र भाष्येव्यक्ति पक्षे एकस्या एव ब्राह्मणव्यक्तेर्हननं स्यादित्याशंक्य जातिपक्षाश्रयणं कृतम्। तेन जातिपक्षेएव सकलव्यक्तिव्यापनमिति लभ्यते। अत एव। जातिपक्षे शास्त्रस्य सकललक्ष्यव्यापकत्वादेव। अनवयवेनेत्यस्य साकल्येनेति व्याख्यानम्। असंभवात्। देशकालभेदेन व्यक्तीनामानन्त्यात्। वैगुण्यं। फलानवाप्तिः। द्रव्यवादे। व्यक्तिपक्षे। इयं व्यक्तिः। विरोधिलक्ष्यरूपा व्यक्तिः। स्वमतमाह तत्र लक्ष्यानुसारात्। विप्रतिषेधसूत्रप्रवृत्तिस्थलं दर्शयति। द्वयोः कार्ययोरितिनत्वेकस्य। मत्प्रवृत्त्युत्तरं प्रवृत्तिमता शास्त्रेण यद्बोधितं तदपि साधुकार्यद्वयासम्भव एव।

अयं भावः – शास्त्रेण गाव्यादीनामसाधुत्वाय स्वविधेयघटितं साधु तदितरदसाधु इत्यवश्यं बोधनीये तुह्योरित्यनेन शास्तादित्यस्य साधुत्वं शाहीत्यस्यासाधुत्वमेवं शाहावित्यनेन शाहीत्यस्य साधुत्वमितरस्यासाधुत्वं बोध्यत इति परस्परं विरोधोऽपि स्पष्टः एवमन्यत्रापि विरोधोऽनुसन्धेय इति। एतदेव दर्शयति यथा शिष्टादित्यादावितिस्वस्वनिमित्तानन्तर्यासम्भव इति। हिनिरूपिताव्यवहितपूर्वस्य शासः प्रसंगे शा साधुरिति शाहावित्यस्य अङ्गोत्तरत्वविशिष्टस्य हेः प्रसंगे तातङ् साधुरिति तुह्योरित्यस्य चार्थे एकस्थानिसम्बन्धस्य अङ्गरूपनिमित्तानान्तर्यस्य चासम्भव एवं रीत्या सर्वत्रोह्यमिति दिक्॥४०॥


परिभाषार्थमञ्जरी

लक्ष्यार्थयोरिति। लक्ष्योपकारकयोरित्यर्थः। परस्परासमभिव्याहारेणान्यत्र लक्ष्ये चरितार्थयोरिति भाव:। अत एव दृष्टान्तेऽपि अन्यकार्यकारणेन तोषितयो: स्वामिनोर्भृत्यः कस्मिँश्चिद्विरोधे कार्य्यं न जनयति इति प्रतीतिः[1] संगच्छते। एवञ्चात्रापि विरोधात् तन्न स्यात्तदेवाह क्वचिल्लक्ष्य इति।अनेन चरितार्थसूत्रयो: युगपत्प्राप्तिः। किञ्च[2] एकत्र पूर्व्वदृष्टान्तोऽपरत्रान्य इति सूचितम्। न जातिपक्षे इति।ननु जातिपक्षे इति वदता प्राचा सर्व्वलक्ष्यविषयकत्वमन्तरा जातिपक्षस्यैव वक्तुमशक्यतया कथं न सर्व्वलक्ष्यविषयकत्वमिति चेत्सत्यम्। अन्यत्र चरितार्थयोर्यादृशलक्ष्ये उभयोः प्राप्तिः तल्लक्ष्यस्याप्येतद्विषयान्तः पातित्वात् [3]निर्मोकेन अन्यत्र प्रकृते[4] वक्तुमशक्यत्वात् इत्याशयात्। तत्र पक्षे उद्देश्यतावच्छेदकावच्छिन्ने प्रवृत्तेरभ्युपगमात्[5] तदेव दर्शयाति न ब्राह्मणेत्यादिनाशास्त्रोक्तमिति। येन वाक्येनैकेन द्रव्यालम्भ: कृतस्तेन वाक्येनान्येनालम्भेऽशास्त्रोक्तम्। भिन्नवाक्येनान्येनान्यालम्भे[6] तु शास्त्रोक्तमेवेति बोध्यम्। अत एव न 'एकः पूर्व्वपरयो'रिति सूत्रस्थभाष्यविरोध इति धेयम्। न कल्पयतीति। शास्त्रद्वयमपि न कल्पयतीत्यर्थः। एतेन तन्मतेऽपि पूर्व्वशास्त्रानुपप्लव एवेति इदमयुक्तमिति न शङ्काकलङ्कः। एवं भिन्धीति। अत्रत्यं तत्त्वं पूर्वमुक्तम्॥४॰॥

[1]प्रतीतिरिति पदं के,खे,गे नास्ति

[2]किन्तु इति के,खे,गे

[3]तन्निर्मोकेन के,गे

[4]प्रवृत्ते इति खे गे

[5] प्रवृत्तेरप्यभ्युपगमात् इति छपुस्तके पाठः।

[6]अन्येनालम्भे के,खे