निर्दिश्यमानस्याऽऽदेशा भवन्ति
नन्वेवम् 'उदस्थादि'त्यादौ 'उदः स्थास्तम्भोः पूर्वस्य' इति पूर्वसवर्णापत्तिरत आह -
निर्दिश्यमानस्याऽऽदेशा भवन्ति।१२।
'षष्ठी स्थानेयोगा' इति सूत्रमावर्तते। तत्र द्वितीयस्यायमर्थः - षष्ठ्यन्तं निर्दिश्यमानम् = उच्चार्यमाणमुच्चार्यमाणसजातीयमेव, निर्दिश्यमानावयवरूपमेव वा स्थानेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थः। तेनेदं सिद्धम्। न च 'अस्य च्वौ' इत्यादौ दीर्घाणामादेशानापत्तिः, तेषां निर्दिश्यमानत्वाभावादिति वाच्यम्, जातिपक्षे दोषाभावात्। किञ्च 'न भूसुधियोः' इति निषेधेन ग्रहणकशास्त्रगृहीतानां निर्दिश्यमानकार्यबोधान्न दोषः। इयङुवङोर्ङित्वं त्विवर्णोवर्णान्तश्नुधातुभ्रुवामित्यर्थेन धात्वादीनामपि निर्दिष्टत्वादन्त्यादेशत्वाय। रीङ्रिङोर्ङित्वं तु स्पष्टार्थमेव। एतेनेदं ङित्त्वं वर्णग्रहणे निर्दिश्यमानपरिभाषाया अप्रवृत्तिज्ञापकमित्यपास्तम्। 'हयवरट्'सूत्रस्थेन 'अयोगवहानामुपदेशेऽलोऽन्त्यविधिः प्रयोजनम्। वृक्षस्तत्र, नैतदस्ति प्रयोजनम्, निर्दिश्यमानस्येत्येव सिद्धम्' इति भाष्येण विरोधात्। अनया परिभाषया 'येन विधिः' इति सूत्रबोधिततदन्तस्य स्थानित्वाभावबोधनम्, 'यदागमा' इति लब्धस्य च। तेन 'सुपदः''उदस्थात्' इत्यादिसिद्धिः। अनया च स्वस्वनिमित्तसन्निधापितानाम् 'अलोऽन्त्यस्ये'त्यादीनां समावेश एव, न बाध्यबाधकभावः, विरोधाभावात्। नाप्येतयोरङ्गाङ्गिभावः, उभयोरपि परार्थत्वेन तदयोगात्। 'अनेकाल् शिदि'ति सूत्रे सर्वश्चैतत्परिभाषाबोधित एव गृह्यते। यत्तु 'आदेः परस्य', 'अलोन्त्यस्ये'त्येतावेव तद्बाधकाविति तन्न; 'उदःस्थात्' इति सूत्रविषयेऽस्याः 'पादः पदिति सूत्रे भाष्ये सञ्चारितत्वात्। नाप्येतयोरियं बाधिका, एतयोर्निविषयत्वप्रसङ्गादिति 'तिविंशते'रिति सूत्रे कैयटः। अकज्विषये नायं न्यायः, स्थानिवद्भावेनेव तन्मध्यपतितन्यायेन तद्बुद्ध्यैव कार्यजननात्। इयञ्चावयवषष्ठीविषयेऽपि। अत एव 'तदोः सः सावि'ति सत्वम्, 'अतिस्यः' इत्यत्रोपसर्गतकारस्य न। निर्दिश्यमानयुष्मदाद्यवयवमपर्यन्तस्यैव यूयादयः, न तु 'अतियूयमि'त्यादौ सोपसर्गावयवमपर्यन्तस्येति बोध्यम्। 'पादः पदि'ति सूत्रे 'षष्ठी स्थाने' इति सूत्रे च भाष्येस्पष्टैषा॥१२॥
कामाख्या
यदागमपरिभाषयाऽड्विशिष्टे स्थात्वातिदेशे उदस्थादित्यत्राल्पप्राणत्वादि- सादृश्येनाकारस्थाने पूर्वसवर्णो दकारः स्यादतः परिभाषामवतारयति नन्वेमिति। न च लङ्लुङलृङामिति न्यासे लङाद्यन्तानामडागम इत्यर्थे च कृते न दोष इति वाच्यम्। अव्यन्निति लङन्तेऽड्विशिष्टे शब्देऽङ्गत्वातिदेशाभावे यणानापत्तेः प्रणयदादित्यत शब्दे दात्वातिदेशाभावे घुसंज्ञाद्यनापत्तेश्च। न चोक्त... सत्वेऽपि उदः परीभूतस्य स्थावयवनिर्दिश्यमानार्थे प्रकृते दोषस्तदवस्थ एवेति वाच्यम्। संभवतिसामानाधिकरण्ये वैयधिकरण्यमन्याय्यमिति स्वसिद्धान्तादुदः परीभूतस्य निर्दिश्यमानाभिन्नस्थाशब्दस्येत्यर्थेऽदोषात्। अत्र ज्ञापकमाह षष्ठीस्थानेति। आवृत्तस्यास्य यतः सेत्याध्याहृत्य यतः सा षष्ठीविहिता तस्य स्थानेन योगो भवतीत्यर्थे प्रकृतपरिभाषा फलिता। एतदेवाह षष्ठ्यन्तमित्यादिना। षष्ठी = अन्ते समीपे यस्येति बहुव्रीहिणा षष्ठीप्रकृतिरित्यर्थः। उच्चार्यमाणस्य। सूत्रघटकस्य कार्यबाधात् सजातीयेत्युक्तम्। अत्र स्ववृत्त्यानुपूर्वीमत्वेन सुपसाजात्यम्। बिन्दुद्वयस्य विसर्जनीयपदवृत्त्यानुपूर्वीमत्वाभावेन वक्ष्यमाणभाष्यविरोधापत्तेः। किन्तु षष्ठीप्रकृतिजन्योपस्थितिविषयत्वेनेति। नन्वेमपि अतिस्य इत्यत्रोपसर्गतकारस्य सत्ववारणाय प्रकृतपरिभाषोपस्थितावपि उच्चार्यमाणसजातीयस्य त्यदादेः कार्याभावेन दोषस्तदवस्थ एवेत्यत आह उच्चार्यमाणसजातीयावयवेति। न तु प्रतीयमानमिति। शास्त्रान्तरसहकृतमित्यर्थः। एवं च षष्ठीप्रकृतिजन्यप्राथमिकोपस्थितिविषयत्वन्तत्त्वमिति फलितम्। प्राथमिकत्वं च शास्त्राप्रयोज्यत्वमिति। न चैवं स्वं रूपशास्त्रसहकृतजरात्वावच्छिन्नोपस्थिविषयजराशब्दस्यापि निर्दिश्यमानत्वं न स्यादिति वाच्यम्। शास्त्रे स्वं रूपशास्त्रातिरिक्तत्वनिवेशेनादोषात्। न चैवमपि स्थानिवत्सूत्रसहकृतनिर्जरघटकजरशब्दस्य तत्त्वानापत्तिरिति वाच्यम्। तदतिरिक्तत्वस्यापि निवेशेनादोषात्। एवं देवीमञ्चति देवद्रयङ्ङित्यादौ लिङ्गविशिष्टपरिभाषोपस्थितस्य देवीशब्दस्य तन्मध्यपतितन्यायसहकृतसर्वक क किम् इत्यादेश्च निर्दिश्यमानत्वसिद्धये न तदतिरिक्तत्वं विशेषणीयम्। नन्वेवमपि 'अणुदित'सूत्रसहकृतदीर्घस्य तत्त्वानापत्तौ शालीभवतीत्याद्यसिद्धिरत आह जातिपक्ष इत्यादि। पाणिनिमतेऽप्याह न भूसुधियोरित्यादि। अन्यथा दीर्घस्याणुदित्सूत्रगृहीतत्वेन निर्दिश्यमानत्वाभावाद्यणादेरप्राप्त्या निर्देशस्य सूत्रस्य चासंगत्यापत्तेः। न च ध्यायति यत्कुलं तद्धि सुष्ठु धिययोस्तौ सुधियौ, भवति यत्कुलं तद्भुसुष्टु भुययोस्तौ सुभुवावित्यत्र चारितार्थ्यमिति वाच्यम्। एतावन्मात्रप्रयोजनकत्वे न भूसुधियोरित्येव वदेत्। अन्त्यार्थमिति। अत्र केचित् निर्दिश्यमानावयवस्य तदितरस्य च प्राप्तौ निर्दिश्यमानावयवस्यैवेत्यर्थे दोषाभावेन इदं चिन्त्यम्। अत एव निर्जरसमुदायस्य न जरसादेशः। रीङ्रिङोङित्वन्तु स्पष्टार्थमित्यग्रमिग्रन्थश्च संगच्छत इत्याहुः। तदपरे न सहन्ते। उक्तार्थे प्रमाणाभावात्। प्रथमोपस्थितिजनकत्वे सति द्वितीयोपस्थितिजनिकाया एव षष्ठीप्रकृतिपदेन ग्रहणेन सर्वदोषपरिहारसम्भवाच्च। तथाहि स्थापदस्य स्थात्वाच्छिन्नविषयतायाः यदागमपरिभाषया स्थाविशिष्टत्वावच्छिन्नविषयतायाश्चोपस्थितिजनकत्वं जरापदस्य जरात्वावच्चिन्नविषयतायाः येन विधिरितिबलात् जरान्तत्त्वावच्छिन्नविषयतायाश्चोपस्थितिजनकत्वं शाभ्वादिपदस्य शात्वाद्यवच्छिन्नविषयतायाः तदन्नत्वाद्यवच्छिन्नविषयतायाश्चोपस्थितिजनकत्वमिति षष्ठीप्रकृतिपदेन ग्रहणं सुलभम्। अङ्गपदस्य च द्वितीपस्थितिजनकत्वाभावेन तेन ग्रहणासंभावात्। किञ्च अभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितमुख्य विशेष्यत्वाप्रयोजिकाया एव षष्ठीप्रकृतिपदेन ह्रहणादङ्गपदस्य सर्वत्र विशेष्यताप्रयोजकतया तत्वेन धर्तुमशक्यत्वात्। मुख्यत्वं च प्रकारत्वासामानाधिकरण्यम्। तेन धात्वादिपदे दोषो नेति। न चोक्तनिर्दिश्यमानत्वस्वीकारे स्नात्वाकालिक इत्यत्र निर्दिश्यमानत्वसत्त्वात् ल्यबापत्तिरिति वाच्यम्। क्त्वान्तसमासावयवनिर्दिश्यमान्तस्य ल्यबित्यर्थेनादोषात्। न चैवमपि स्नात्वाकालकीकृत्येत्यत्र पूर्वस्यापि ल्यबापत्तिर्दुर्वारेति वाच्यम्। मयूरव्यंसकादिगणे पाठसामर्थ्येन पूर्वस्य ल्यबभावकल्पनात्। अनञ्पर्युदासेन किञ्चित्पूर्वस्यैव ल्यबादेशविधानाच्च। न चोक्तनिर्दिश्यमानत्वस्यानेकेतरघटितत्वेन गौरवग्रस्ततया न कार्यसाधकत्वमिति वाच्यम्। षष्ठीप्रकृतिशक्यत्वमिति स्वीकारेणादोषात्। येन विधिर्यदागमा इति लब्धस्य षष्ठीप्रकृतिलक्ष्यत्वेन निर्जरसावित्यादावदोषः। केचित्तु यत्तत्पदाघटितशास्त्रबोधितत्वन्तत्त्वमिति स्वीकारेण न कोपि दोष इति वदन्ति तन्न , तन्मध्यपतितन्यायबोधितस्याग्रहणापत्तेः। यदि च शक्यतावच्छेदकारोप एव लक्षणेत्युच्यते तदा षष्ठीप्रकृतिशक्यत्वमिति स्वीकारेऽपि निर्जरसावित्यादौ दोषस्य दुर्वारत्वमिति । केचित्तु षष्ठीप्रकृतिशक्यत्वमित्यस्य षष्ठीप्रकृतिविशिष्टत्वमित्यर्थ इति वदन्ति। वै. स्वप्रयोज्यशाब्दबोधीयविषयताश्रयत्वसम्बन्धेन जराजरसाविति षष्ठीतत्पुरुषेऽन्त्यपदेन संकुचिता शाब्दीविषयताऽन्त्यजरानिष्ठैव विभक्तिसान्निध्यात् पदद्वित्वस्थले तु समुदाये स्थानिवत्वेन सविषयताऽक्षतैवेति समुदायस्यैवादेशः। न चार्थवत्पात्वावच्छिन्नशाब्दीविषयतायाश्च पाशब्दवृत्तित्वात् तस्यैव निर्दिश्यमानत्वापत्तिरिति वाच्यम्। स्वजन्योपस्थितिविषयताश्रयसमभिव्याहृतवर्णाघटितत्वमिति द्वितीयसंबन्धस्वीकारेणादोषात्। अपिबदित्यत्र अकारस्य निर्जरसावित्यत्र रेफस्य च तादृशसमभिव्याहृतवर्णतया समुदायस्य तदघटितत्वाभावेन न निर्दिश्यमानत्वम्। पाशब्दे शाब्दीविषयताऽपर्याप्त्याऽस्त्येवेति न दोषः। न च देवीघटकेकारस्य तादृशसमभिव्याहृतवर्णतया तद्घटितस्य कथं निर्दिश्यमानत्वमिति वाच्यम् । देवश्च देवी चेत्येकशेषेण विष्वग्देवयोरिति निर्देशेनादोषात्। तादृशप्रयोगस्यानभिधानात्। स्त्रीप्रत्ययेतरसमभिव्याहृतवर्णाघटितत्वमिति निवेशाच्च । न चअस्य स्त्री ई, या जरा ईजरा, ईजराचर ईजरसावित्यादौ समुदायस्य स्त्रीप्रत्ययेतरवर्णाघटितत्वेन दोषापत्तिरिति वाच्यम्। स्वजन्योपस्थितिविषयताश्रयविशिष्टाघटितत्वमिति स्वीकारेणादोषात्। वै. स्ववृत्त्यानुपूर्वीमदघटकत्व स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयस्त्रीप्रत्ययेतरत्वोभयसम्बन्धेन। प्रकृते ईकारस्य जरानिष्ठोद्देश्यतानिरूपितविधेयताश्रयस्त्रीप्रत्ययेतरत्वेन तद्घटितस्य समुदायस्य न निर्दिश्यमानत्वम्। जराजरसावित्यादिसिद्धये स्ववृत्त्यानुपूर्वीमदघटकत्वेति निवेशः। अन्यथा तादृशविशिष्टो वर्णो जकारादिस्तद्घटितस्यान्त्यजराशब्दस्यापि निर्दिश्यमानत्वं न स्यात्। सजुषः सजूः सजूः सजुरित्यादिसमासेऽन्तर्वर्तिविभक्त्यापूर्वस्यापि सजुष्रूपपदत्वात् समुदायस्य च सजुष्शब्दान्तपदत्वादुभयोः शाब्दबोधीयविषयाश्रयत्वमक्षतमेवेति। एवं चापिवदित्यत्र निर्दिश्यमानत्वाभावादेव दोषाभावेनानुमानिकस्थानिवद्भावेनैव सिद्धेः यदागमपरिभाषानिष्फलैवेति बोध्यम्। तथा च षष्ठीप्रकृतिविशिष्टत्वन्तत्त्वम्। वै. स्वप्रयोज्यशाब्दबोधीयविषयताश्रयत्वस्वजन्योपस्थितिविषयताश्रयविशिष्टाघटितत्वोभयसम्बन्धेन। अत्र वै. स्ववृत्त्यानुपूर्वीमदघटकत्व स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयस्त्रीप्रत्ययेतरत्वोभयसम्बन्धेनेति फलितमिति दिक्।
केचित्तु 'उदः स्थास्तम्भो'रिति सूत्रे सकारं प्रश्लिष्योदः परीभूतस्यैतयोरवयवसकारस्य पूर्वसवर्ण इत्यर्थे उदस्थादित्यत्र सकारस्योदः परीभूतत्वाभावेन न दोषः। जराया इति सूत्रस्य विभक्तिपरकाव्यवहितस्याङ्गावयवजराशब्दस्य जरसित्यर्थे निर्जरसावित्यादौ न दोषः 'पादः पदि'तिशास्त्रस्य भपदेनाजादिप्रत्ययाक्षेपादजादिप्रत्ययाव्यवहितस्याङ्गावयवस्य पादः पदित्यर्थे सुपात्पद इत्यत्र दोषाभावः। 'वाह ऊठि'तिशास्त्रस्याजादिप्रत्ययाव्यवहितपूर्वस्य भसंज्ञकावयवस्य 'वाह ऊठि'त्यर्थे विश्ववा ऊह इत्यादौ न दोषः। भाष्ये एकाज्भ्य आचारक्विपो दर्शनेन क्विप्निष्पन्न तृतां तृतामिति प्रयोगस्यैव दुर्लभतया परिभाषाफलत्वं चिन्त्यम्। वृषलपतिपत्नीत्यत्र पतिशब्दात् प्रातिपदिकस्य नत्वमित्यर्थेऽलोन्त्यपरिभाषयाऽन्त्यस्यैव भविष्यतीति न दोषः। स्नात्वाकालिकीकृत्येत्यत्र मयूरव्यंसकादौ निपातनादेव सिद्धम्। एष्ट अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषया समाधानन्तु न युक्तम्, अन्त्यवर्णतद्वर्णयोरितराव्यवधानत्वमिति ग्रन्थस्वारस्येन यत्र वर्णस्य कार्यन्तत्रैव तस्याः प्रवृत्तिस्वीकारात्। सर्वस्यै इत्यादौ स्याड्विशिष्टस्य स्मै इत्यादय आदेशास्तु न स्याड्विधानसामर्थ्यात्। 'पूर्वादिभ्यो नवभ्यो वे'ति विकल्पपक्षे चारितार्थ्यन्तु न शङ्क्यन्तत्रापि 'ङेर्य' इत्यादीनां प्रवृत्तेर्दुर्वारत्वात्। अपिवदित्यपि न परिभाषा साध्यम्। 'पाघ्राध्मे'त्यत्र घकारप्रश्लेषाद् घादिघ्राधातोर्जिघ्रादेशविधानऽनतिदिष्टस्यैव घ्राधातोर्ग्रहणात्तत्साहचर्यादनतिदिष्टस्यैव पाधातोर्ग्रहणेनादोषात्। अरुदितामित्यत्र रुदादिभ्य इतीटो बहिर्भूतनिमित्तकत्वेन बहिरङ्गतया पूर्वमेव तसस्तामादेशः तत इटि परिभाषाप्रयोजनाभावात्। यत्तु परिभाषासत्वे रमायामित्यत्र याटाव्यवधानान् ङेरामोऽप्राप्तौ अनवकाशत्वेन आमा याटो बाधेऽपि पुनर्याट्सिद्धिः। उक्तपरिभाषाया अभावे यदागमपरिभाषया याड्विशिष्टस्य ङित्वातिदेशे कृतेऽपि चारितार्थ्यस्य तक्रन्यायमूलस्य सत्वेन तेन बाधापत्तौ पुनर्याट् न स्यादिति परिभाषाफलं सम्यगिति। तन्न, नीसाहचार्यान्ङ्यन्तादाबन्तात्परीभूतस्यानतिदिष्टस्यैव ङेराम् विधानादुक्तदोषानवकाशात्। एवं च परिभाषायाः फलाभावेऽपि अनेकत्रानेकक्लिष्टकल्पनापेक्षया परिभाषाकरणस्यैव लघीयस्त्वादिति दिक्।
अकज्विषये नायं न्याय इति। तन्मध्यपतितन्यायविषयेऽयं न्यायो व्यावर्तको न भवतीत्यर्थः। अत एवानाप्यक इति सूत्रेऽक्ग्रहणं चारितार्थ्यम्। न चैवं भिन्धकीत्यत्राकचि धित्वं न प्राप्नोति निर्दिश्यमानपरिभाषयेति भाष्यविरोध इति वाच्यम्। अकचि कृते सति निर्दिश्यमानपरिभाषयाऽकच् रक्षकं धित्वं न प्राप्नोतीत्याशयवर्णनेनादोषात्। केचित्तु यत्र सर्वापहारकादेशस्तत्रैवैषा प्रवर्तते यथा भिन्धकीत्यत्र हेर्ध्यादेशः 'किमः क' इति तु न सर्वापहारकादेशः आदेशे ककारश्रवणादित्याहुः।तन्मध्यपतितत्वं च समुदायविशिष्टत्वं वै. स्वघटकावधिकपूर्वत्व स्वघटकावधिकोत्तरत्वोभयसम्बन्धेन। केचित्तु जनरा जकराशब्दे तन्मध्यपतितन्यायेन जराशब्दत्ववारणाय स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयत्वमिति तृतीयसम्बन्धं स्वीकुर्वन्ति तदसत्। अर्थवत एव जराशब्दस्य जरसादेशविधानाज्जनरादिघटकजराशब्दस्यार्थवत्वाभावात् अन्तात्यन्तेति सूत्रेऽपि अर्थवद्ग्रहणपरिभाषोपस्थितावनत्यन्तशब्दे दोषाभावात्। किञ्च नरम्मन्य इत्यत्र सुपोधात्विति लुकापत्तिवाराणायाम्विधानसामर्थ्याश्रयणपरभाष्यविरोधः। 'इत्थंभूतलक्षण' इति सूत्रस्थशेखरविरोधश्च स्यादतस्तृतीयसम्बन्धनिवेशेन युक्तिसह इत्यास्तां विस्तर इति। अग्रिमस्थमूलन्तु सुगममिति दिक्॥१२॥
परिभाषार्थमञ्जरी
पूर्वसवर्णापत्तिरिति। ननु यमुद्दिश्य इत्यर्थस्य पूर्वव्यवस्थापितत्वेनाऽगम[1] विधायकेऽङ्गस्योद्देश्यत्वेनाङ्गस्य अनयाऽतिदेशेऽपि स्थात्वस्यानतिदेशेन कथं तदापत्तिरिति चेन्न। उद्देश्यतावच्छेदकधर्मस्यैवानयाऽतिदेशे तकारथकारयोर्व्विधीयमानसुटि तत्त्वादेरतिदेशेऽपि आर्धधातुकत्वस्य अनतिदेशे इडागमानापत्त्या उद्देश्यतावच्छेदकीभूतधर्मसमानाधिकरणयावद्धर्माणामतिदेशस्य कार्य्यार्थतया कार्य्यप्रयोजकानां सर्वेषामतिदेशेन [2]स्थात्वस्याप्यतिदेशे तदापत्तेर्दुर्धरत्वात्। किञ्च न भूसुधियोरितीति। इदं[3] व्यक्तिपक्षे बोध्यम्। न चानवकाशया 'अलोऽन्त्य'परिभाषया अस्या बाधेन 'अस्य च्वावि'त्यादौ ग्रहणकशास्त्रेण सर्वेषामपि स्थानित्वे इष्टसिद्धिरिति वाच्यम्। 'आदेः परस्ये'ति परिभाषाबाध्यालोऽन्त्यस्येत्यनेन निर्द्दिश्यमानपरिभाषाया बाधे 'आदेः परस्ये'त्यनेनावश्यं निर्द्दिश्यमानपरिभाषाया बाधेन 'उदः स्थादि'त्यादौ दोषस्योज्वलत्वात्। न चोदस्थादित्यादौ यदागमा इति प्राप्तविशिष्टस्थानित्वस्य निर्द्दिश्यमानपरिभाषया बाधे 'स्था' इत्यस्यैव स्थानित्व[4]प्राप्त्या 'आदे'रिति परिभाषया[5]ऽस्यापि बाधे क्व दोष इति वाच्यम्। पूर्वप्राप्तयदागमेति परिभाषया प्राप्तस्थानित्वस्यैव अनया बाधे कर्त्तव्ये तदपवादकपरिभाषाया बाधपर्य्यन्तानुधावनस्य निर्बीजत्वात्। किञ्च तद्बाध्यबाध्यत्ववदेतद्बाध्यबाध्यत्वस्यापि वक्तुं शक्यत्वाच्च। न च विरोधाभावेन तस्याः कथं बाध इति वाच्यम्। निर्द्दिश्यमानस्थास्तम्भोरादेः पूर्वसवर्णति इति वाक्यभेदेनिर्म्मोकेनाविरोधस्यात्रापि त्वया पर्य्यालोचनीयत्वात्। इदमेवाग्रे समावेशव्याख्यावसरे स्फुटीभविष्यति। न च यदागमा इति प्राप्तस्थानित्वस्यापि अनया बाध इति वाच्यम्।'नन्वेवम् उदस्थादित्यादौ 'उदः स्थास्तम्भोरि'ति पूर्व्वसवर्णापत्तिरत आहेति'। त्वदीयपरिभाषावतरणस्य दत्तजलाञ्जलित्वपातात्। एतेन 'न भूसुधियो'रिति ग्रन्थमनूद्य रीङ्रिङोरित्यादिग्रन्थमनूद्य, अनया चेत्यादिसंचारितत्वादित्यन्तं समावेशग्रन्थमनूद्य चानवकाशत्वेन दूषयित्वा नव्यतराणां प्रदीपनिर्व्वापकफूत्कार: प्रशमितो वेदितव्य इति वदन्तः कैयटानुचरा: प्रदीपनिर्व्वाक[6]फूत्कारनिसृतदूषणरजःकणपूरितनयना: आन्ध्यं प्रापिता इति ध्येयम्। निर्दिष्टत्वादिति। ननु 'येन विधि'रिति परिभाषया तदन्तविधौ प्राप्तस्थानित्वस्य यदागमा इति न्यायेन प्राप्तस्थानित्वस्य चाभावो बोध्यत इति वक्ष्यमाणेन ग्रन्थेन एतद्रीत्या रीङादावपि ङित्त्वस्य साफल्यात् तद्वैयर्थ्यप्रतिपादकेन ग्रन्थेनातिस्यमित्यादावपि तद्द्वयस्य[7] सत्वाभावप्रतिपादकग्रन्थेन च विरुद्धमिति चिन्त्यमिदमिति चेन्न। अनुवृत्तस्य 'येने'ति सूत्रेण तदन्तविधौ विशिष्टस्य प्राप्तस्थानित्वस्याभावबोधेनेन ग्रन्थस्योज्जीवनात्। किञ्च जस्त्वाद्यंशे ङित्वस्य [8]चारितार्थ्यत्वाच्च। न च परिभाषा[9] यथाश्रुतेऽर्थेऽतिस्य इत्यादौ तद्द्वयस्यापि निर्द्दिश्यमानत्वेन प्राप्तसत्ववारणायार्थान्तरस्वीकारेणानुवृत्तत्यदादीति पदस्यापि निर्द्दिश्यमानत्वस्वीकारवद् रिङादिविधौ विशिष्टस्य स्थानित्वेऽपि केवलत्यदादेरपि स्थानित्वस्य संभवेन परिभाषाविषयाद्विशिष्टस्य सत्वाप्रवृत्तावपि रिङादिविधौ त्वनुवृत्ताङ्गादित्यस्य केवलस्य स्थानित्त्वेऽतिप्रसङ्गादावश्याश्रयितव्ये तदन्तविधौ परिभाषाप्रवृत्त्या निर्द्दिश्यमानस्यैवादेशसिद्धौ ङित्वस्य वैयर्थ्यात्।एवञ्च निर्द्दिश्यमान इत्यस्य साक्षादनुवृत्त्या वा निर्द्दिश्यमान इत्यर्थः। इदं सर्वं 'पादः पदि'तिसूत्रस्थपरिभाषाविषयकातिस्य इत्युदाहरणपरभाष्यादनुमीयते इति संक्षेपः। समावेश इति। 'त्यदादीनाम' इत्यादावङ्गाधिकारेण तदन्तद्विधौ निर्द्दिश्यमानत्यदाद्यन्तस्याकार इति सूत्रार्थेन बाधकाभावात् सः। एवं वृद्धत्वनिमित्तच्छसंनियोगेन विधीयमानो[10]'राज्ञः क चे'ति कादेशेऽपि निर्द्दिश्यमानान्त्यस्य कादेश इत्यर्थेन स बोध्य:। एवमादेः परस्येत्यंशेऽपि 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' द्व्यादिभ्यः परस्य निर्द्दिश्यमानस्याप आदेरीदादेशः। एवम् उदस्थास्तम्भोरित्यत्रापि बोध्यम्। तथा 'अनेकाल्शित्सर्वस्ये'त्यंशेऽपि निर्द्दिश्यमानस्य सर्वस्य पाच्छब्दस्य अनेकालादेश इत्यादिरर्थः। यद्यप्यलोऽन्त्यपरिभाषया अन्त्यस्य स्थानित्वं द्वितीयया च यदागमा इति न्यायेन लब्धस्यागमविशिष्टस्यादे: स्थानित्वं, तृतीये तु तदन्तविधौ विशिष्टस्य तत्त्वम्, अनया तु विपरीतमिति कथमेकवाक्यताया[11] समावेशस्तथापि तच्छेषपक्षे 'मृजेर्वृद्धि'रित्यादावेकवाक्यतया परिभाषा द्वयस्यान्वये विरोधवदत्र तदभाव इत्याशयः। नह्येकवाक्यतया अन्वये लक्ष्यासिद्धिरत आह विरोधाभावादिति। यद्यपि जराशब्दान्तेऽनेकालिति बाधित्वा अस्याश्चारितार्थ्येन 'पाद: पदि'ति सूत्रभाष्ये प्रायोऽनेकालिति विषयेऽस्याः प्रवृत्तिदर्शनादालोऽन्त्यस्येत्यादिपरिभाषाद्वयमनवकाशत्वादस्याः बाधकं तथापि अबाधकत्वेनैवोपपत्तौ बाधकत्वमनुचितमिति भावः। सूत्रेकैयट इति। तत्र हि 'यस्येति चे'तीकारलोपे सिद्धे समुदायनिर्द्देशवैयर्थ्यमुक्त्वा कृतेऽपि तन्निर्देशेऽन्त्यस्य कस्मान्नेत्याशङ्क्य निर्द्दिश्यमानपरिभाषया समाधानपरभाष्यमादाय नात्र परिभाषाप्रवृत्तिरिष्टा न सा तयोर्बाधिका विरोधाभावात्। किन्तु समुदायनिर्देशात्तदप्रवृत्तौ सर्व्वादेशोऽनयेत्युक्तं तेनेति भावः। अकज्विषय इति। किम: कादेशे कर्त्तव्ये इति शेषः। अत्र प्रमाणन्तु 'किमः क' इत्यावृत्त्या कादेशविधानमेव। स्पष्टश्चायमर्थः 'किमः कः' इति सूत्रे कैयटे, विवरणे, शेखरे, शब्दरत्ने च। इम इति वक्तव्ये सूत्रारम्भसामर्थ्यादिति तु न किम इत्यस्य 'कु तिहो'रित्याद्यर्थत्वात्। अत एव 'हुझल्भ्य' इति सूत्रस्थभाष्यविरोधो न। तत्र हि भिन्धकीत्यत्र अकचि कृते धित्वं परिभाषया न प्राप्नोतीत्याशङ्क्य परत्वात् धित्वेऽकजित्युक्तम्। अथवा इकारस्योच्चारणार्थत्वेन हकारमात्रं [12]स्थानीत्युक्तमिति बोध्यम्। स्पष्टश्चायमर्थः 'किमः कः' इति सूत्रे शेखरे इति बोध्यम्। यत्तु कैयटानुयायिन: इम इत्येवास्तु त्यदादीनामिति चानुवर्तते तत्सामार्थ्याद् द्विपर्य्यन्तस्येत्यवधिः परित्यज्यते। अन्त्यस्य पूर्व्वेणैव सिद्धेऽनन्त्यार्थमिदम्। तत्र द्वयोरकारयोः पररूपेण चेष्टसिद्धौ किमः कादेशविधानं साकच्कस्यादेशार्थमिति निर्दिश्यमानपरिभाषया तद्बाधे तु व्यर्थमेव स्यादिति वदन्तः आवृत्त्या साकच्कस्यादेश इति स्वमूलघातमपश्यन्तश्चोपेक्ष्याः। अत्र न्यासे इमावित्यादवतिव्याप्तेश्चेति दिक्॥१२॥
[1]आडागम इति गे
[2]स्थात्वस्याप्यतिदेशेइति खे नास्ति
[3]इदञ्च इति गे
[4]स्थानिवत्व इति के
[5]तस्यापि इति के,खे,गे
[6]निर्वापक इति के,गे
[7]न द्व्यस्य इति गे
[8]चारितार्थ्याच्च इति के, खे, गे
[9]परिभाषायाः इति खे, गे
[10]विधीयमाने इति के
[11]एकवाक्यतया इति खे
[12]स्थानीत्यप्युक्तमिति इति गे