मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्
'नासिकोदरौष्ठजङ्घादन्त' इत्यस्यौष्ठाद्यंशे ङीष्निषेधत्वावच्छिन्नबाधकत्वे निर्णीते किं विहितस्येत्याकाङ्क्षायामाह -
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्।६१।
तेन ओष्ठादिषु पञ्चसु 'असंयोगोपधात्' इति प्रतिषेध एव बाध्यते, न तु 'सहनञ्विद्यमानलक्षण' इति 'नासिकोदर' इत्यत्र भाष्ये स्पष्टम्। पूर्वोपस्थितबाधेन नैराकाङ्क्ष्यमस्यां बीजम्॥६१॥
कामाख्या
नासिकोदरोष्ठेति। न च 'कुप्वोः ᳲक ᳲपौ चे'त्यस्य सकललक्ष्यप्राप्तविसर्जनीयस्य इत्येतद्बाधकत्ववत् प्रकृते सकललक्ष्यप्राप्तसंयोगोपधादित्येतद्बाधकत्वमेव स्यान्न तु सहनञ् लक्षणस्येत्यस्येति वाच्यम्। इञ्ठकोर्नाप्राप्तयोरारभ्यमाणस्य ऋष्यणः कस्य बाधकत्वमित्यवतरणस्य दातुं शक्यत्वात्। न तु सहनञ्विद्यमानलक्षणस्येति। इदमुपलक्षणम्। आत्रेय इत्यादौ परत्वाठ्ठगेव न तु अपवाद ऋत्वण् इत्यस्य॥६१॥
नास्ति।