नञ्घटितमनित्यम्
तथा विनार्थनञा समासेनानुदात्तं पदमनेकमित्येव सिद्धे वर्जग्रहणात् –
नञ्घटितमनित्यम्।९८।
तेन 'नेयङुवङ्' इत्यस्यानित्यत्वाद् 'हे सुभ्रु' इति सिद्धमिति।
तन्न, भाष्येऽदर्शनात्। भाष्यानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात्। भाष्याविचारितप्रयोजनानां सौत्राक्षराणां पारायणादावदृष्टमात्रार्थकत्वकल्पनाया एवौचित्यात्। किञ्च ज्ञापितेऽप्यानीत्यस्य न सार्थक्यमाडागमशून्यप्रयोगस्य अप्रसिद्धेः। आट्ग्रहणं तु लोड्ग्रहणवदिति बोध्यम्। अत एव 'घोर्लोपो लेटि वा' इति सूत्रे वेति प्रत्याख्यातम्। लोपेऽप्याट्पक्षे आटः श्रवणं भविष्यति 'दधादि'ति, अटि 'दधदिति। आगमशास्त्रस्यानित्यत्वे त्वाट्यसति दधादित्यसिद्ध्या वाग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानासङ्गतिः स्पष्टैव। एतेन यत्कैयटेन केचिदित्यादिनाऽस्यैव वाग्रहणस्य तदनित्यत्वज्ञापकतोक्ता सापि चिन्त्या, प्रत्याख्यानपरभाष्यविरोधात्, 'तनादि' सूत्रे कृञ्ग्रहणस्य भाष्ये प्रत्याख्यानाच्च, चक्षिङो ङकारस्यान्तेदित्त्वाभावसम्पादनेन चारितार्थ्याच्च॥९८॥
कामाख्या
नञ्घटितमिति। नञ्घटितसूत्रविधेयमित्यर्थः।हे सुभ्रु इति । अत्र नदीत्वेनाम्बार्थेति ह्रस्वः सिद्धः। सर्वा अनूद्य खण्डयति। तन्नेति। नन्वेवं भाष्येऽविचारितसूत्राणामप्यप्रामाणिकत्वं स्यादत आह भाष्येति। नन्वेवं गुणादिशब्दानां वैयर्थ्यापत्तिरत आह भाष्याविचारितेति। एवं सर्वसाधारणदोषमुक्त्वा द्वितीयमसाधारणदोषेण खण्डयति किञ्चेति। अप्रसिद्धेरिति। तथा च ज्ञपकत्वासंगतिः। लोड्ग्रहणवदिति। यथा तव लोट् ग्रहणं व्यर्थमदृष्टार्थम्वा तथा ममापि आडागमशून्यप्रयोगाभावेनाड्ग्रहणमपि व्यर्थमदृष्टार्थं स्पष्टप्रतिपत्यर्थम्वेति भावः। अतएव। आगमशास्त्रमनित्यमित्यस्याभावादेव। प्रत्याख्यातमिति। वेत्युपादानं दधात् दधदित्युभयसिद्ध्यर्थन्तच्च लोपस्यनित्यत्वेऽपि सिध्यतीति भावः। आट्यसतीति। भवत्सम्मतपरिभषया आट्यसतीत्यर्थः। ननु यदीयं परिभाषैव न स्यात्तदाऽस्या अनित्यतायां घोर्लोप इति सूत्रस्थं वा ग्रहण् ज्ञापकमिति कैयटोक्तं विरुध्येतेति शङ्कानिवारणार्थन्तन्मतं दूषयति एतेनेति। अन्यत् सर्वं सुगममिति॥९८॥
नास्ति।