यस्मिन्विधिस्तदादावल्ग्रहणे
ननु 'वान्तो यी'त्यादौ यादौ प्रत्यय इत्यर्थः कथमत आह -
यस्मिन्विधिस्तदादावल्ग्रहणे।३३।
तदन्तविधेरपवाद इयम्। वाचनिक्येषा, 'येन विधिरि'त्यत्र भाष्ये पठिता। अस्याश्च स्वरूपसती सप्तमी निमित्तम्। अत एव 'नेड्वशि कृती'त्यादौ वशादेः कृत इत्याद्यर्थलाभः। इयं च 'आर्धधातुकस्येडि'ति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् विशेष्यविशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते। तेन 'डः सि धुडि'त्यादौ सादेः परस्येति नार्थः। 'तीषसह', 'सेऽसिची'त्यादौ यथा तादेरित्याद्यर्थलाभः, तथा शब्देन्दुशेखरे निरूपितम्॥३३॥
कामाख्या
'येन विधिस्तदन्तस्ये'त्यस्यापवादतया स्मृतां परिभाषामवतारयति ननु वान्तो यीति। न च यान्ते प्रत्यये इत्यर्थे सूत्रवैयर्थ्यमिति वाच्यम्। गोयमततीति गोयात्तमाचष्टे इत्यर्थे णिचि, टिलोपे, अज्झलादेशेन स्थानिवत्वाभावे, गव्ययतीत्यत्र यान्तप्रत्ययसत्वेन सूत्रस्य चारितार्थ्यात्। 'धातोस्तन्निमित्तस्ये'ति तु भूधातोर्विचि, गुणे, साध्वर्थे यति, भोयमततीति भोयात्। तमाचष्टे इत्यर्थे णिचि, टिलोपे, भोययतीत्यत्र अवादेशाभावाय चारितार्थ्यात्। न च 'वान्तो यी'त्यस्य 'अमि पूर्व' इति वत्प्रत्ययावयवे यकारे प्रत्ययघटकयकारे वा इत्यर्थे न दोष इति वाच्यम्। महिषीशब्दाद् गोयुगचि, महिषीगोयुगमित्यत्राप्यवादेशापत्तेः। न चात्र विधान सामार्थ्यादेव न भविष्यतीत्यवतरणासंगतिरिति वाच्यम्। अपोभिरित्यत्र मान्तप्रत्ययासंभवेन तदर्थमवतरणस्यावश्यकत्वात्। न चोक्तसूत्रारम्भसामर्थ्यात् प्रत्ययाव्यवहितपूर्वस्य मकाराव्यवहितपूर्वस्य अमस्तकार इत्यर्थेनसिद्धे किमर्थमिदमिति वाच्यम्। 'कोः कत्तत्पुरुषेऽचि' अत्रापि तदन्तविधौ कद्रथ इत्यादिसिद्ध्या रथवदयोश्चेत्यस्य वैयर्थ्यापत्तेः। न च रथवदशब्दाभ्यामाचारक्विबन्ताभ्यां कर्त्तरिक्विपि अल्लोपे रत् वदिति तयोः कुशब्देन समासे एकदेशविकृतन्यायेन चारितार्थ्यं स्थानिवद्भावस्तु न अचः पूर्ववत्वेन दृष्टत्वाभावात्। एवं 'त्रौ चे'ति सूत्रं त्रीनिवाचरतीति त्रि कुत्रिदित्यत्र चरितार्थमिति वाच्यम्। पीत्यस्य चारितार्थ्याय अस्यावश्यकत्वात् अन्यथा घुमास्थेत्यस्य हलन्ते क्ङित्यर्थे प्रादायेत्यत्रेत्वाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेति। न चप्रदायच्छत्रमित्यत्र 'छे चे'ति तुकि हलन्तत्वसंभवेन ज्ञापकत्वासंभव इति वाच्यम्। 'आतो लोप' इति चेत्यस्यापि अजन्तार्धधातुक इत्यर्थे प्रदाय छत्रमित्यत्र तुक पूर्वमेवातो लोपे इत्वाप्राप्त्या न व्यपीत्यस्य वैयर्थ्येन ज्ञापकत्वसंभवात्। एवं च वाचनिक्येषेति कथनन्तु भाष्ये वचनरूपेण पठितेत्यभिप्रायेण। ननु प्रत्ययावयवो यो षकारस्तदव्यवहितपूर्वयोरोदौत्वोरवाव इत्यर्थेन गोयुगचि ओकारोच्चारणसामर्थ्येन प्रत्ययावयवे भकारेऽपस्तकार इति अपोभिरित्यस्यार्थेन 'कोः क त्तत्पुरुषेऽची'त्यस्योत्तरपदावयवाच्परकाव्यवहिततस्येत्यर्थेन च सकलेष्टसिद्धौ वृथेयं परिभाषेति चेन्न। परमदण्डिनावित्यत्र दोषवारणाय 'ङमो ह्रस्वादि'त्यस्याजादेः पदस्येत्यर्थसंपादनायावश्यकत्वात्। न च पदे परे यो ङम् ततः परस्याच इत्यर्थे परमदण्डिनाविति सिद्धे व्यर्थेयमिति वाच्यम्। 'तृणह इमि'त्यस्य सार्वधातुकावयवे हलीत्यर्थे वर्णप्राधान्यात्। वर्णाश्राये नास्तीति निषेधे अतृणेडित्यत्र नित्यत्वात् पूर्वं हलङ्यादिलोपे इमागमाप्राप्त्या तदर्थमावश्यकमिति वाच्यम्। प्रतिपदोक्तत्वेन पूर्वमेवेमागमापत्तेः भाष्यमते नाभ्यस्तस्येत्यतोऽचि नेत्यनुवर्त्य तृणहानीति सिद्धौ हल्ग्रहणाकरणाच्च,'पाघ्राध्मे'ति सूत्रस्य इत्संज्ञकशकारपरत्वसंभावितानामित्यर्थेनादोष इति वृथैवेति केचित्। अत एव एक हलादौ पूरयितव्ये ह्रस्वान्तादौ तद्धिते इत्यादिषु आदिग्रहणं चारितार्थमिति। श्रीमद्गुरुचरणास्तु - अनेकत्रानेकक्लिष्टकल्पनापेक्षया परिभाषाकरणं वरम्। उक्तादिग्रहणन्तु स्पष्टार्थमेवेत्याहुः। अभेदसम्बन्धावच्छिन्नसप्तमीप्रकृतिभूताल्त्वव्याप्यधर्मावच्छिन्नप्राकरताप्रयोजकं पदं स्वादिघटितसमुदायबोधकं भवतीति परिभाषार्थः। उभयोः सप्तम्यन्तत्वे एवेति। उत्सर्गसमानदेशा अपवाद इति न्यायेन येनविधिरित्यस्यापवादभूताया अस्या अपि समानाधिकरणविशेणे एव प्रवृत्त्या समानविभक्तिकत्वयुक्तमिति भावः। केचित्तु समानाधिकरणविशेषणस्थले समानविभक्तिकत्वनियमेनैव तल्लाभादिदं न्यायसिद्धार्थानुवादकमित्याहुः। तत्र मृदु पचति, सोमेन यजेतेत्यादावसमानविभक्तेरपि समानाधिकरणत्वदर्शनात्। वलि आर्धधातुक इति न्यासे 'तस्मिन्नि'ति परिभाषया आर्धधातुकाव्यवहितपूर्वस्येडागमापत्तेः। वलि परे आर्धधातुकस्येडित्यर्थभ्रमवारणायादिग्रहणस्य चारितार्थ्येन ज्ञापकत्वासंभव इति वृद्धाः। सादेः पदस्येति नार्थ इति। ननु 'येन विधि'रित्यस्य प्रवृत्तौ सूत्रवैयर्थ्यापत्त्या सामर्थ्यात्तदन्तविधिः परिभाषाप्रवृत्तौ तु षट्त्सन्त इत्यादौ चारितार्थ्येन तद्बाधके प्रमाणाभाव इति चेन्न समानाधिकरणविशेषणाभावेन सादेः पदस्येत्यर्थालाभात्। शब्देन्दुशेखरे निरूपितमिति। तत्र हि तीति से इति च प्रथमार्थे सप्तमी। तस्य वलादिपदार्थैकदेशे वल्पदार्थेऽन्वयः। तथा च तकाराभिन्नो यो वल् तदादेरार्धधातुकस्येत्यर्थे उक्तपरिभाषाप्रवृत्तिम्विनापि सिध्यति। एवं 'सेऽसिची'त्यत्रापि बोध्यम्। वस्तुतस्तु तीत्यादिसप्तम्याऽव्यवहितपूर्वोपस्थित्या तकाराव्यवहितपूर्वेभ्य इच्छत्यादिभ्यः परस्य वलादेरार्धधातुकस्येडित्यर्थाश्रयणेनैव सिद्धे शेखरोक्तप्रयासः परिभाषा वा वृथेति दिक्॥३३॥
परिभाषार्थमञ्जरी
तीषसहसेऽसिचीत्यादाविति।'आर्धधातुकस्येड्वलादे'रित्यतो वलादेरित्यनुवर्त्य प्रथमार्थकतीति सप्तम्यन्तस्य तदेकदेशवल्पदार्थे विशेषणात् तद्रूपो यो वल् तदादेरित्यर्थलाभ इति निरूपितम्। यत्तु वृद्धाः पूर्व्वोक्तार्थे क्लेशं मन्वानास्तकारपरके [1]छेत्यादयः परस्यार्धधातुकस्येडित्यर्थेऽर्थात्तकारादेरित्यर्थलाभ इति व्याचख्युः। तत्तु 'नादिन्याक्रोशे पुत्रस्य' इति सूत्रस्थादिनी शब्दे परे यः पुत्र शब्दः तदवयवाचः परस्य यरो न द्वित्त्वमित्यर्थे क्वाप्यदोषेऽपि आदिनी शब्दे इति उद्देश्यत्वात् प्राधान्येन यर एव विशेषणमुचितमित्यर्थकशेखरेण तत्रत्य स्वोक्त्या च प्रकृतेऽपि उद्देश्यत्वेनार्द्धधातुकस्यैव प्राधान्यात्तीत्यस्य तद्विशेषणत्वापत्तौ इच्छत्यादेः परस्य तकारपरकार्द्धधातुकस्येडित्यर्थे एषितृ तितीर्षति कुलमिति तृजन्ते तकारपरकतृच इडागमसिद्धावपि लुडन्त एषितेत्यत्र तकारपरकान्यार्द्धधातुके चाव्याप्त्यतिव्याप्तिग्रस्तम्। यदि तीत्यस्य प्रकृत्यंशे उत्थिताकांक्षत्वेन तत्रैव विशेषणमित्युच्यते तथापि तकारपरक इच्छत्यादेः परस्यार्द्धधातुकस्येडित्यर्थे मूलोक्तरीत्या तदादिविधेरभावे येन नाव्यवधानमितिन्यायेन आर्द्धधातुकस्य व्यवधानस्य सोढव्यत्वेन पूर्वोक्तसकलदोषानुद्धारः। किञ्च तीत्यस्य प्रत्ययग्रहणस्य अभावेन तथाकांक्षाया वक्तुमशक्यत्वाच्च। अव्यवहिततकारपरक इच्छत्यादेः परम् आर्द्धधातुकतकारादिरेव इत्याग्रहस्तर्हि मूलशैथिल्यमङ्गीक्रियताम्। तथाहि अनयैव दिशाऽव्यवहितवल्परकधातोः परस्यार्धधातुकस्येडित्यर्थेऽर्थाद्वलादेरेवेट्-सिद्धावादिग्रहणस्य दत्तजलाञ्जलित्वपातात्। तस्माच्छेखरोक्त प्रकार एव सम्यक्। इदमेव ध्वनयितुं वृद्धैरपि वस्तुतस्त्वितितुः अरुचिबोधक: प्रयुक्तः। वस्तुतस्तु विशेषणविशेष्ययोःसप्तम्यन्तत्वे सत्येव तदादिविधेरङ्गीकारे 'गोत्रेऽलुगचि' इत्युत्तरसूत्रादचीत्यपकृष्यानुवृत्ततद्धितस्य विशेषणेऽजादेस्तद्धितस्येत्यर्थप्रतिपादक'द्विगो'रिति सूत्रस्थाजादिग्रहणं च कर्त्तव्यम्। इह मा भूत्। पञ्चगर्गरूप्यम्, पञ्चगर्गमयमित्यत्र भाष्येण 'कारनाम्नि च प्राचां हलादौ' 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' इति सूत्रस्थादिग्रहणेन च विरोधाच्चिन्त्यमिदम्। न चाचीत्यपकर्षे 'येन विधिस्तदन्तस्य' 'तद्वहती'तिसूत्रस्थद्विरथे 'तस्येदम्' इत्यधिकारविहितयतो लुक्भाष्यसम्मतो न स्यादिति वाच्यम्। वाग्रहणमनुवर्त्त्य भाष्यतात्पर्य्यविषयीभूतां व्यवस्थितविभाषां चाश्रित्य समाधातुं शक्यत्वात्। अजादिग्रहणं च कर्तव्यमिति भाष्यविरोधेनाचीत्यनपकृष्यान्यत्रानभिधानं चाश्रित्य व्याख्यानं तु न युक्तम्। उभयो: सप्तम्यन्तत्वे एव प्रवृत्तिरित्यत्र भाष्यन्तु उदासीनम्। किञ्च 'ङमो ह्रस्वादि'ति सूत्रस्थपदावयवङमः परस्याचो ङमुडिति भाष्यानुरोधेन पूर्व्वत्रापि विशेष्यविशेषणाभावव्यत्यासेन पदावयवस्य धुडित्यर्थ एवोचितः। अत एव वैयधिकरण्यमेवाश्रितं शेखरे। 'उञि च पदे' इति पदग्रहणन्तु नात्र सम्बध्यते। ङमो ह्रस्वादचीत्युत्तरसूत्रे एव प्रयोजनकथनपरभाष्यादिति 'उञि च पदे' इति सूत्रे शेखरे स्पष्टमिति सुमनीषिभिरालोच्यम्। यदि क्वचित्तदादिविधिरनिष्टस्तदा प्राचां हलादेरित्यादिग्रहणादेव एतत्परिभाषाया अनित्यत्वाश्रयणेन परिहरणीयः। अत्रत्य ग्रन्थस्तु प्राचामनुरोधेनेति, इयं चेति चकारेण मूलकृतैव सूचितमिति दिक्। यद्वा। ननु अल्बोधकविशेषणवाचकसप्तम्यन्ते एतत्परिभाषाप्रवृत्तावपि विशेष्यवाचके किं समानविभक्तिकत्वम् उत भिन्नभिन्नविभक्तिकत्वं नियतमित्यत आह इयं चेति।सप्तम्यन्त एवेत्यस्याग्रे प्रायेणेति शेषः। शेषपूरणफलन्तु 'द्विगो'रिति सूत्रस्थभाष्यविरोधपरिहारः। ननु [2]विभक्तिकस्थलेऽपि परिभाषाऽप्रवृत्तौ 'डः सि धुडि'त्यादावतिप्रसङ्ग इत्यत आह तेनेति।तच्छब्दस्य बुद्धिस्थपरामर्शकत्वात्तेनेत्यस्य विशेषणविशेष्यभावव्यत्यासे पदावयवस्येत्यर्थेनेत्यर्थः। नन्वेवमपि विभक्तावेतत्परिभाषायाः[3] प्रवृत्तौ 'तीषसहे'त्यादावप्येतत्प्रवृत्यैव तादेरित्यर्थलाभेन तत्संपादकतत्सूत्रस्थशेखरविरोध इत्यत आह तीषसहेति। शब्देन्दुशेखरे 'वान्तो यि प्रत्यये' इति सूत्रे 'तस्मान्नुडची'त्याद्यर्थमावश्यिकयेत्यादिपदग्राह्यत्वेन निरूपितम्। 'तीषसहे'तिसूत्रस्थशेखरस्तु प्रोढ्येति न कश्चिच्छङ्काकलङ्कलेशोऽपीति संक्षेपः। अत्र पक्षे प्राचां हलादेरित्यादिग्रहणं स्पष्टार्थम्। एतेन वस्तुतस्तु वल्यार्धधातुकस्य इत्युच्यमानेऽङ्गाक्षेपपूर्व्वकं षष्ठीप्रकल्पनया यावत्सामानाधिकरण्यावगमेन तदादिग्रहणं प्राप्तम्, ततः पूर्व्वमेव तस्मिन्नित्यनेन वलि परे यदार्धधातुकं तस्येडित्यर्थप्रसंगात् भविष्यतीत्यादावेव स्यान्न तु भवितेत्यादाविति कथमादिग्रहणवैयर्थ्यशङ्का। 'तीषसहे'त्यादौ तु साक्षात्पञ्चम्यन्तोपादानादेव न दोषः। यद्यप्यत्र परिभाषायां ज्ञापकमुक्तम्। [4]तथापि 'घुमास्थे'त्यत्र हलीति सप्तम्यन्तेनापि विशेषणेन चेत् तदन्तविधिस्तदा ल्यपि परत इत्वं न प्राप्नोतीति तन्निषेधकं 'न ल्यपी'ति व्यर्थं सञ्जापकम्। एवञ्च तदादिविधेरभावे पीतवानित्यादौ हलन्ते एवेत्वं स्यान्न पीतमित्यादाविति। तदादिविधिसत्वे तु न दोष इति वदतां कैयटानुयायिनां कोलाहलनिर्भरः प्रशमित:। किञ्च इड्विधायकस्याङ्गाधिकारस्थत्वेन तस्याक्षेपे किं बीजमिति रहसि[5] प्रष्टव्यत्वाच्च। किञ्च त्वदुक्तं ज्ञापकत्वमपि न सम्यक्। ल्यपि परत इत्वविधिप्रवृत्तिज्ञापनेनाजन्ते क्ङिति क्वचिदित्वप्रवृत्तिज्ञापनेन च तस्य सार्थक्यस्य वक्तुं शक्यत्वात्। अत एव भगवता ज्ञापकत्वं नोक्तम्। अत एव मूलकृता च वाचनिक्येषेत्युक्तमिति दिक्॥३३॥
[1]छेत्यादेः इति के
[2]भिन्नविभक्तिकस्थले इति छपुस्तके पाठः।
[3]परिभाषा इति के,खे,गे नास्ति।
[4]तथा हि इति के,गे,
[5]हरदत्त इति छपुस्तके पाठः।