व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्
अथ शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम्
मूलम् -ननु लण्-अइउण्सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहादनिर्णयोऽत आह -
व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम्॥१॥
विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानाच्छिष्टकृतात् प्रतिपत्तिर्निश्चयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्ठापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः। असन्दिग्धानुष्ठानसिद्ध्यर्थेऽत्र शास्त्रे सन्दिग्धोच्चारणरूपाचार्यव्यवहारेण सन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोध्यत इति यावत्। तेन 'अणुदित्सवर्णस्य' इत्येतत्परिहाय पूर्वेणाण्ग्रहणं, परेणेण्ग्रहणमिति 'लण्' सूत्रे भाष्ये स्पष्टम्॥१॥
कामाख्या
कामाख्या
अथास्मिन्ग्रन्थे त्रीणि प्रकरणानि सन्ति। शास्त्रत्वसम्पादकम्, बाधबीजकथनम्, शेषाख्यं चेति। तत्र 'एकदेशविकृतमनन्यवदि'त्यन्तमाद्यम्। 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयानि'त्यन्तन्द्वितीयम्। तत आसमाप्तिन्तृतीयम्। तेषु शास्त्रत्वसम्पादनं विना बाध्यबाधकाऽसम्भवेन प्राधान्यात् प्रथमं तदेवोपात्तम्। तेष्वपि महेशवरोच्चारितानुबन्धमूलकत्वेनाभ्यर्हितत्वात् सकलपरिभाषाप्रवृत्तिप्रयोजकत्वेन पितृस्थानीयत्वाच्चादौ अवसरसंगत्या 'व्याख्यानत' इति परिभाषामवतारयितुमवतरणमाह – नन्वित्यादिना। अवतरणत्वं च - 'वक्तव्यार्थविषयकजिज्ञासोत्थापकत्वम्'। अवसरसंगतित्वं च - 'स्मृतिविषयकत्वे सति उपेक्षानर्हत्वम्। सन्देहादिति। सन्देहश्च 'एकधर्मिकविरुद्धकोटिद्वयावगाहिज्ञानत्वम्'। यथा स्थाणुर्वा पुरुषो वेति। न चात्र क्व सन्देहः ?। न तावच्छक्तौ। यथा - लोके घटपदं घटत्वावच्छिन्ने शक्तमिति निश्चये, नीले, पीते, श्वेते वेति सन्देहादर्शनम्। तथा 'आदिरन्त्येने'त्यनुशासनेन अण्पदमकारादिणान्तसमुदायघटक-वर्णवृत्तिजात्यवच्छिन्ननिरुपितशक्तिमदिति बोधनेन शक्तेर्निश्चयात्। निश्चयस्य च संशयप्रतिबन्धकत्वेन अण्पदं वर्णत्रये, वर्णचतुर्दशे वा शक्तमिति शक्तिसंशयानुदयात्। न च णकारद्वयोच्चारणसामर्थ्यात् अकारादिपूर्वणकारान्तसमुदाये शक्तमुत अकारादिपरणकारान्तसमुदाये शक्तमिति भेदेन शक्यतावच्छेदककोटौ पूर्वत्वपरत्वयोर्न्निवेशात्सन्देहः सम्भवत्येवेति वाच्यम्। नानार्थकहर्यादिपद इव नानाशक्तिसत्वेऽपि शक्तीनां विरोधाभावेन सन्देहलक्षणाघटनात्। नापि तात्पर्ये। एकस्मिन्ननेकेच्छाया दर्शनेन पूर्वणकारतात्पर्येण परणकारतात्पर्येण वा अण्पदं पाणिनोच्चारितमिति तात्पर्यस्य विरोधाभावेन सन्देहासम्भवादिति चेत् सत्यम्। अस्मदादिबोधनेच्छया प्रयत्नवतो मुनेस्तात्पर्यस्य द्वैविध्ये निश्चयात्मकशाब्दबोधस्यास्मदादीनां दौर्लभ्येन मुनेरनौचित्यापत्या, इदमण्पदं पाणिनिना अकारादिणान्तसमुदायघटकवर्ण-त्रयबोधनेच्छया उत तादृशवर्णचतुर्दशबोधनेच्छया वोच्चारितमिति तात्पर्यसन्देहस्य सुलभत्वात्। यदि च तात्पर्यसन्देहेऽपि सन्देहात्मकः शाब्दबोधो भवत्येवेत्युच्यते, तर्हि अनिर्णय इत्यस्य निश्चयात्मकः शाब्दबोध न स्यादित्यर्थो बोध्यः।
परिभाषार्थमाह। विशेषेति। अन्यतरादिः। अन्यतम आदिशब्दार्थः। अलक्षणमित्यस्यार्थमाह – अननुष्ठापकेति। तथा च अननुष्ठापकमप्रवृत्तिजनकं लक्षणमलक्षणमित्यर्थः। केचित्तु - न अनुष्ठापकमननुष्ठापकम्। तच्च तल्लक्षणमलक्षणमिति शाकपार्थिवादित्वादनुष्ठापकशब्दस्य लोपेऽप्रवर्तकलक्षणमित्यर्थ इति वदन्ति। ननु ज्ञापितेऽपि स्वांशे चारितार्थ्याभावेन व्याख्यानेनैव सन्देहनिवृत्तेरन्यथासिद्धफलाभावेन चेयमसंगतेत्यत आह - असन्दिग्धानुष्ठानेति। भावक्तान्तसन्दिग्धशब्दस्यार्थाभावेऽव्ययीभावात् सन्देहस्याभावोऽसन्दिग्धम्। सन्देहविषयभिन्नं यदनुष्ठानं प्रयोगोच्चारणप्रवृत्तिस्तत्सिद्ध्यर्थेऽत्र शास्त्रे इत्यादिरर्थः।
अयं भावः- तद्विषयकप्रवृत्तिं प्रति तद्धर्मिकेष्टसाधनत्वनिश्चयस्य हेतुत्वेन अनुष्ठानस्य शब्दोच्चारणविषयकेच्छारूपत्वेन, इच्छायाश्च साधुत्वाभिधानद्वारा पुण्यजनकत्वरूपेष्ट-साधनत्वज्ञानजनकत्वात्। शास्त्रस्योत्तेजकत्वेन शास्त्रमसन्दिग्धानुष्ठानप्रयोजकं भवतीति। तथा चानुमानप्रयोगः। शास्त्रं सन्देहाभाववच्छब्दोच्चारणविषयकेच्छाजनकम् इष्टसाधनत्व-निश्चयजनकत्वादिति। सन्दिग्धेति। अत्र भावक्तान्तसन्दिग्धशब्दस्य सन्देहजनके लक्षणा। आचार्यपदेन महेश्वरः। बोध्यते = अनुमीयते। अनुमानश्चेत्थम् - सन्देहविषयीभूतं शास्त्रं व्याख्यानातिरिक्तनिमित्तानपेक्षम्। सन्देहजनकोच्चारणविषयत्वे सति असन्दिग्धानुष्ठानप्रयोजकत्वात्। अत्र चानुकूलतर्को णकारोच्चारणमेव। अन्यथा गकाराद्यनुबन्धेनैव सन्देहनिवृतेस्तदुच्चारणं व्यर्थं स्यात्। कल्पिते त्वस्मिन्निमित्तान्तरस्यापेक्षाभावेन व्याख्यानेनैव निर्णयो न तु गकारादिकरणेनेति। न स्वांशे चारितार्थ्याभावप्रयुक्तमेतद्वैयर्थ्यमिति बोध्यम्। सन्देहनिवृत्तेर्व्याख्यानापेक्षत्वं बोध्यत इत्येव सिद्धे नञ्द्वयोपादानेन विरोधस्थले व्याख्यानादेव सन्देहनिवृत्तिः कार्या, न तु पाणिनिन्यासपरिवर्तनादिनेति बोधनद्वारा'यथोत्तरं मुनीनां प्रामाण्यमि'ति सूचितम्। व्याख्यानं च।
पदच्छेदः पदार्थोक्तिर्विग्रहवाक्ययोजना।
आक्षेपोऽथसमाधानं व्याख्यानं षड्विधं मतम् ॥
अणुदित्सूत्रादन्यत्र तत्र तत्राण्ग्रहणसामर्थ्यात् पूर्वेणैव। अन्यथाऽचमेव विदध्यात्। 'य्वोरि'ति सम्मृद्यग्रहणादिण्परेणैवेति भाष्ये स्पष्टमिति दिक्॥१॥
परिभाषार्थमञ्जरी
परिभाषार्थमञ्जरी
तेन अणुदित्सवर्णस्येति।यत्वत्र शब्दरत्नमनूद्य कैयटानुयायिनः - यत्त्वणुदित्सवर्णस्येति परेणाण्ग्रहणे ज्ञापकम् 'उर्ऋदि'ति तपरकरणं विचारयता शब्दरत्नकृता, न च तपरसूत्रेण लृकारग्रहणार्थं तदित्याशङ्क्य[1] 'स्थानेऽन्तरतम'परिभाषया ऋकारस्य स्थाने तु तस्य वारणेन ग्रहणे फलाभावादिति समाहितम्। तत्र शङ्कैव तावन्न सङ्गच्छते। सूत्रकारमते ऋकारलृकारयोः सावर्ण्याभावेन तद्ग्रहणस्य [2]दुरापास्तत्वात्। तपरकरणसूत्रे समानकालासवर्णग्रहणनिवृत्तये सवर्णपदानुवृत्तेरावश्यकत्वात्। वार्तिककृन्मते तत्सम्भवेऽपि 'अणुदित्सवर्णस्ये'ति सूत्रेऽण्ग्रहणस्य तेन प्रत्याख्यातत्वात् सन्देहाभावात्। एतेन 'उपसर्गादृती'ति तपरकरणादणुदित्सूत्रे परेणाण्ग्रहणमिति न युक्तम्। लृकारग्रहणेन चारितार्थ्यादिति शेखरोक्तिरपि परास्तेति दूषणं वृकगणमुत्ससृजुस्तत्तु ग्रन्थाशयानवबोधनात्। तथाहि 'न पदान्ते'ति सूत्रे 'पूर्वत्रासिद्धे न स्थानिवदि'त्यनेन [3]पिपाठीरित्यत्र सन्नन्तात् क्वौ अल्लोपे, पश्चादत्र सकारस्य रुत्वे स्थानिवत्वनिषेधार्थं क्रियमाणेन द्विर्वचनादावपि कर्तव्ये स्थानिवत्वनिषेधे सिद्धे द्विर्वचनादिग्रहणस्य भाष्यमते प्रत्याख्यानेऽपि सूत्रकारमते द्विर्वचनसवर्णादिग्रहणं वतिघटितान्यातिदेशानां त्रिपाद्यामपि प्रवृत्तिबोधनार्थम्। तेन राम इत्यादौ विसर्गादिसिद्धिरिति[4] शेखरादौ सूत्रकाराशयवर्णनवद'कोऽकि दीर्घ' इत्येव सिद्धे सवर्णग्रहणेन यादृशसवर्णपरतः दीर्घे कृते सवर्णग्रहणं सार्थक्यम्। तेन [5]ऋकारेण लृकारस्यसूत्रकारमते सावर्ण्यकल्पनादृकारेण लृकारस्य ग्रहणमाशङ्क्य शब्दरत्नादौ समाहितम्। न च 'स्थानेऽन्तरतम'सूत्रे किमुदाहरणमित्याशङ्क्य 'इको यणचि', 'तस्थस्थमिपाम्' इत्युदाहरणमुक्त्वा 'यथासंख्य'सूत्रेतत्संसाध्य अकः सवर्ण इत्युदाहरणं स्थापितम्। 'अकोऽकी'ति न्यासे तु तदप्युदाहरणमसङ्गतमेवेति भाष्यविरोध एवेति वाच्यम्। तत्सूत्रस्य सभास्थितिन्यायेन प्रत्याख्यानेनादोषात्। 'ऋलृवर्णयोरि'ति वार्तिकैकवाक्यतया अकारादिभिर्लृकारेण सवर्णत्वाभावबोधनेन तैस्तेनापि सावर्ण्यकल्पनायामनिष्टं स्यादिति शङ्का तुदूरापास्तैव। अत एव सूत्रेष्वेव हि तत्सर्वमित्यादिवृद्धोक्तिरप्यनुगृहीता। ऋलृक्सूत्रे तु लृकारग्रहणं तु यथासंख्यार्थम्। एवं च सवर्णसंज्ञाविधायकं वार्तिकं नापूर्वमिति गूढाकूतम्। अत एव भाष्ये अकः सवर्ण इति सवर्णपदांशेऽकर्तव्यता नोक्ता। तस्य सर्वथाऽप्रामाणिकत्वे तदकर्तव्यतां ब्रूयात्। 'ऋलृक्'सूत्रे वार्तिककारेण सावर्ण्यस्योपसङ्ख्यानत्वेन सूत्रकृता तदनाश्रयणात्। अत्र लृकारोपदेशः [6]कर्त्तव्यः इति कैयटस्तु यथाश्रुतार्थग्राहीति नास्माकं प्रतिकूलम्[7]। किञ्च ऋलृवर्णयोः सावर्ण्यस्योपसङ्ख्यानवादिमते 'ऋति ऋ वे'त्यादिवार्तिकप्रत्याख्याने सूत्रेणैव विवृतेषत्स्पृष्ट ऋकारलृकारयोः सिद्ध्या तदैकवाक्यतया सूत्रकारमतेऽपि तयोः सूत्रेणैव सिद्धिरुचिता। किञ्च 'तुल्यास्य' सूत्रे सूत्रकारमते ऋकारलृकारयोरसावर्ण्यमाशङ्क्य वार्तिकं प्रवृत्तमिति। तन्मतेऽपि तस्य सत्वात्। अण्ग्रहणप्रत्याख्याने तु तस्यार्थान्तरमित्यन्यत्। अन्यथा सूत्रकारमते न्यूनता तदवस्थैव। अत एव जातिपक्षमुपक्रम्य वार्तिकस्यार्थान्तरं ग्रन्थेषु सङ्गच्छते। वार्तिककृन्मते इत्याद्युक्तिरपि अतितुच्छा। तन्मतेऽण्ग्रहणप्रत्याख्यानेन ऋलृवर्णयोरित्यनेन साजात्यातिदेशात्। शब्दरत्नादौ तु अण्ग्रहणविचारमुपक्रम्य शङ्कायाः करणात्। एवञ्च त्वदुक्तशङ्कानवकाश एव। अत एवोपसर्गादृतीति शेखरोऽप्युपजीवित इत्यलं ग्रन्थाशयमजानतो दूषणवृकगणभीषणेनेति दिक्।
ननु ऋकारलृकायोः सावर्ण्यबोधनेऽपि वार्तिककारमतेऽण्ग्रहणप्रत्याख्यानेन ‘उप- सर्गादृती’त्यादौ ऋकारेण लृकारग्रहणमाशङ्क्य वार्तिकेन साजात्यमतिदिश्यते इत्युक्तिस्त्वनुचिता। सूत्रेणसवर्णसंज्ञा तत्रत्यवार्तिकेन तु साजात्यातिदेश इति [8]वैरूप्यग्रहदंष्ट्राग्रस्तत्वात्। अत एवाण्स्थाने ऋग्रहणं प्राञ्चः पेठुः[9]। किन्तूभाभ्यामपि साजात्यमेवातिदिश्यताम्। मानञ्चात्र 'नाज्झलावि'ति सूत्रम्। ऋलृवर्णयोः सावर्ण्यप्रतिपादकवार्तिकञ्च। तथा हि - जातिपक्षेऽज्झलां सवर्णसंज्ञाया[10] अपि अणुदित्सूत्रेऽण्ग्रहणप्रत्याख्यानेन विधिप्रदेशे तदग्रहणे निषेधसूत्रवैयर्थ्यं स्यात्। एवम् अण्ग्रहणप्रत्याख्याने 'उपसर्गादृती'त्यादौ ऋकारग्रहणेन लृकारग्रहणानापत्तौ अण्ग्रहणप्रत्याख्यानमसङ्गतं स्यात्। ताभ्यां साजात्यबोधने तु सूत्रसार्थक्यं वार्तिककृदुक्ताण्ग्रहणप्रत्याख्यानञ्च सङ्गतम्। अत एव 'नाज्झलावि'ति सूत्रे तत्प्रत्याख्यानं भगवता कण्ठतो नोक्तम्। एवं सति सूत्रवार्तिकभाष्याणामेकवाक्यता सम्पन्ना भवति।
न च सूत्रकारमते जातिग्रहणस्याभिमतत्वे सूत्रेऽण्ग्रहणं किमर्थं कृतमिति चेदेकशेषसूत्रवज्जात्याख्यामितिवच्चावेहि। [11]ननु तर्हि सूत्रकारवार्तिकारादीनां मते को विशेष इति चेन्न कोऽपि। तदाशयस्यैव ताभ्यां प्रकाशितत्वात्। न च 'नॄन्पे', 'केऽण' इत्यादिवर्णग्रहणे सजातीयवर्णग्रहणे नॄन् बिभर्तीत्यादावपि रुत्वाद्यापत्तिरिति वाच्यम्। 'च जोः कुघिण्यतोः', 'दधस्तथोश्च', 'झषस्तथो'रित्यादिज्ञापकाद् इत्संज्ञकोकारानुपलक्षितहलां सजातीयत्वप्रयुक्तकार्य्याभावज्ञापनात् अण्ग्रहणज्ञापनाद्वा। सवर्णग्रहणसामर्थ्यादेव 'झरो झरी'त्यादौ न दोषः। हलामित्युक्तेस्तु[12] न दोषः। न च ‘चजो’रेवेति नियमार्थं तद्ग्रहणमिति वाच्यम्। अनेकत्रनियमकल्पनाया अन्याय्यत्वात्। नियमापेक्षया विधेर्बलीयस्त्वाच्च। ज्ञापकत्वे तु विधित्वम्। ध्वनितश्चायमर्थ एओङ्सूत्रस्थहलित्येतत्सूत्रस्यज्ञापकपरभाष्ये। एवम् 'अइउण'सूत्रेऽनुबन्धासङ्करनिवारक'प्राग्दीव्यतोऽण्' इत्येव सिद्धे 'शिवादिभ्योऽणि'त्यत्र णित्करणेन नानुबन्धसङ्कर इत्येतद्भाष्यव्याख्यानपरविवरणे च। न चात्र पक्षे 'नाज्झलावि'ति सूत्रस्वीकारे गौरवम्। 'अणुदित्सवर्णस्य चे'त्यंशस्य प्रत्याख्यानेन द्वादशपुत्रोत्सवस्थानापन्नषण्मात्राऽकरणप्रयुक्तलाघवेन तस्य पराहतत्वात्। न च 'चजोः कुरि'त्यादौ विधेयेऽप्रत्यय इति निषेधापत्तिः। भवन्मते उदित्करणेनैव मन्मतेप्यनिषेधात्। ‘चजो’रिति ज्ञापकेन सजातीयप्रयुक्तकार्याभावे प्रसक्ते तदभावाय तत्करणात्। सवर्णसंज्ञायामिति संज्ञाव्यवहारपरभाष्यं तु व्यक्तिपक्षाभिप्रायकमिति नास्माकं मार्गमवरुणद्धि। एवञ्च सकलेष्टसिद्धिरिति चेदिष्टापत्तेः। न चाप्रत्ययस्येत्यस्य प्रतियोगिताभावात्[13] प्रतियोगिप्रसिद्धये सवर्णस्येति वाच्यमेव। अत एव 'तपरस्तत्कालस्ये'त्युत्तरसूत्रमपि नासमञ्जसमिति वाच्यम्। 'तुल्यास्यप्रयत्नं सवर्णम्', 'तपरस्तत्कालस्य', 'नाज्झलौ', 'प्रत्यय' इति न्यासे सूत्रकारवार्तिककारयोस्तात्पर्य-कल्पनेनादोषात्। अत्र पक्षे नञ्ग्रहणमपि न कर्तव्यमिति द्विपुत्रोत्सवोऽभिवृद्ध इत्यतिलाघवम्। अण्ग्रहणप्रत्याख्यानवार्तिकेन साजात्यमतिदिश्यते इति व्याख्यात्रा च सर्वोऽयमर्थो ध्वनित इत्यलमतिलेखनेनेति दिक्॥१॥
हिन्दीटीका
अइउण् से लेकर हल तक चौदह प्रत्याहारसूत्र हैं । इन सूत्रों के अन्तिम वर्ण, जिन्हें अनुबन्ध या इत् कहते हैं, से प्रत्याहार बनाये जाते हैं । अब इस बात का सन्देह होता है कि अणु और इण् प्रत्याहार किस णकार तक बनाये जाँय ? क्योंकि 'अइउण्' तथा 'लण्' इन दो सूत्रों में इत्संशक णकार है । इसलिये अण् और इण् प्रत्याहार के सम्बन्ध में संशय उत्पन्न होने से अनिर्णय की स्थिति प्रस्तुत है । इस स्थिति के निराकरण के लिये ग्रन्थकार 'ध्यास्यानतो विशेषप्रतिपत्तिः' नामक परिभाषा का प्रस्तुतीकरण करते हैं ।
अनेक में से किस एक का अथवा दो में से किसी एक का ग्रहण किया जाय ऐसी विशेष की प्रतिपत्ति अर्थात् निश्चय शिष्टों के व्याख्यान से करना चाहिये । सन्देह उपस्थित हो जाने से शास्त्र को अलक्षण (अननुष्ठापक) नहीं मानना चाहिये ।
विशेष का अर्थ है 'अन्यतर या अन्यतम दो या अनेक में से एक ऐसे विशेष के विषय में निश्चयसम्बन्धी सन्देह उत्पन्न हो जाने पर शिष्टों के द्वारा किये गये व्याख्यान के द्वारा निश्चय करना चाहिये । सारे शब्दों के विषय में जिसका 'अयं शब्दः साधुः' ऐसा साधुत्व प्रकारक ज्ञान हो वही व्यक्ति यहाँ शिष्ट शब्द से समझना चाहिये । सन्देह हो जाने पर शास्त्र को अलक्षण (अननुष्ठापक) नहीं मानना चाहिये । अर्थात् यह शास्त्र शब्द साधुत्व का साधन नहीं है ऐसा नहीं समझना चाहिये, क्योंकि शास्त्र की निर्णयजनकता ही उचित है । असन्दिग्ध प्रवृत्ति के प्रयोजक इस व्याकरणशास्त्र में आचार्य (महेश्वर या पाणिनि) के द्वारा किया गया सन्देहजनक उच्चारण इस बात को सूचित करता है कि सन्देह की निवृत्ति व्याख्यानातिरिक्त निमित्त से नहीं की जानी चाहिये । आचार्य ने 'अइउण्' तथा 'लण्' इन दो सूत्रों में णकार अनुबन्ध करके अण् और इण् प्रत्याहारों के विषय में सन्देह पैदा कर दिया है । इसलिये सन्देहजनक णकारद्वय के उच्चारण से 'व्याख्यानतो विशेषप्रतिपत्तिः ... यह परिभाषा ज्ञापित की जाती है ।
यहाँ एक बात यह विचारणीय है कि 'सन्देह की निवृत्ति व्याख्यानातिरिक्त निमित्त की अपेक्षा नहीं रखती' ऐसा ग्रन्थकार ने लिखा है । इसका तात्पर्य होता है कि सन्देह की निवृत्ति व्याख्यान की अपेक्षा रखती है । ऐसी स्थिति में सीधे इस बात को न कह कर 'व्याख्यानातिरिक्त निमित्त की अपेक्षा' इस प्रकार वक्रोक्ति के प्रयोग का क्या रहस्य है ? इस आशंका के उत्तर में विवेचकों का कहना है कि जहाँ व्याख्यान तथा उससे भिन्न उपायान्तर (प्रमाण) इन दोनों से सन्देह की निवृत्ति संभव हो, वहाँ पर व्याख्यान के द्वारा की गई सन्देहनिवृत्ति ही व्याकरणशास्त्रोपयोगिनी है, अन्य प्रमाणों से की गई सन्देह की निवृत्ति नहीं । इस प्रकार ज्ञापन का फल यह हुआ कि 'हृदयस्य हृल्लेखयदण्लासेषु' इस सूत्र में लेख शब्द के विषय में जब यह सन्देह होता है कि यह शब्द घञ् प्रत्ययान्त है कि अण् प्रत्ययान्त, क्योंकि लिख धातु से घञ् और अण् दोनों प्रत्ययों के करने के बाद लघूपध गुण करके लेख शब्द बन सकता है । ऐसा सन्देह होने पर यद्यपि लेख शब्द को घञ् प्रत्ययान्त ही मानना उचित है क्योंकि अण् प्रत्ययान्त मानने पर अण् ग्रहण से ही कार्य चल जाता, लेख ग्रहण का औचित्य ही नहीं रह जाता । तथापि भाष्यकार के व्याख्यान से लेख शब्द को अण प्रत्ययान्त ही माना गया है । भाष्यकार ने लेख शब्द को अण् प्रत्ययान्त माना और अण् ग्रहण से ही लेख शब्द की गतार्थता की संभावना में लेख ग्रहण को व्यर्थ कर उससे उत्तर ‘पदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्' इस परिभाषा का ज्ञापन किया । उत्तरपद का जहाँ अधिकार जाता है वहाँ प्रत्यय से प्रत्ययान्त नहीं लिया जाता । इसलिये अणु से अण् प्रत्ययान्त लेख शब्द का ग्रहण नहीं होता । अतः लेख ग्रहण का सार्थ्यक्य होता है ।
इस प्रकार देखा गया कि उक्त सूत्र में लेख शब्द की सार्थकता के लिये उसे धन् प्रत्ययान्त मानना तथा भाष्य व्याख्यानानुसार अण् प्रत्ययान्त मानकर 'उत्तरपदाधिकारे' यह परिभाषाज्ञापन के लिये उसको आवश्यक मानना, इन दोनों प्रकारों में व्याख्यान के द्वारा की गईं सन्देहनिवृत्ति ही व्याकरणशास्त्र में मान्य हुई ।
इस उपर्युक्त कथन से 'यथोत्तरं मुनीनां प्रामाण्यम्' इस कथन की भी सम्पुष्टि होती है । इसका तात्पर्य यह है कि उत्तरोत्तर मुनि के कथन में पूर्व मुनियों का तात्पर्य निहित होता है, न कि उत्तरमुनि की अपेक्षा पूर्वमुनि का अप्रामाण्य होता है । इसलिये 'चिन्विकृण्ण्योर च' इस सूत्र में भाष्यकार को जो अभिमत है उसी में पाणिनि का तात्पर्य समझा जाता है । पाणिनि ने घिव धातु के वकार को अकार किया है जिसका 'अतो लोप:' से लोप होता है । इसका फल यह होता है कि 'घिनोति' प्रयोग में लघूपधगुण नहीं होता है । क्योंकि धावंश का जहाँ लोप होता है वहाँ 'न धातुलोप आर्धधातुके' इस सूत्र के द्वारा गुण और वृद्धि का निषेध कर दिया जाता है । अब प्रश्न होता है कि पाणिनि ने वकार को अकार करके जो लोप किया है उससे तो अच्छा यह होता कि वे वकार का ही लोप कर दिये होते । वकार का लोप भी घात्वंश का ही लोप है, जो गुण वृद्धि के निषेध के लिये उपयुक्त ही है । किन्तु पाणिनि वकार का लोप न करके अकार विधान करने के उपरान्त उसका लोप करके यह बात व्यक्त करते हैं कि उत्तरमुनि में पूर्वमुनि का तात्पर्य होता है । पाणिनि जानते हैं कि पतञ्जलि के द्वारा 'न धातुलोप आर्धधातुके' इस सूत्र का प्रत्याख्यान होगा । इसलिये उस सूत्र के अभाव में धात्वंशलोपनिमित्तक गुणवृद्धि का निषेध संभव नहीं होगा । इसलिये उन्होंने वकार को अकार बनाकर उसका लोप किया । लुप्त अकार स्थानिवद्भाव के द्वारा चला आयेगा जिससे लघूपधगुण नहीं होगा । सीधे वकार का लोप करने से यह बात सम्भव नहीं थी क्योंकि वलोप का स्थानिवद्भाव सम्भव नहीं था ।
‘व्याख्यानतो विशेषप्रतिपत्तिः' इस परिभाषा को स्वीकार करने का परिणाम यह हुआ कि लण सूत्रस्थ भाष्य व्याख्यान के आधार पर इण् प्रत्याहार पर शंकार (लण् सूत्र के णकार) तक और 'अणुदित्सवर्णस्य चाप्रत्ययः' सूत्र को छोड़कर सभी जगह के लिये अण् प्रत्याहार पूर्वणकार (अइउण् के णकार) तक ही माना गया । 'अणुदित्' सूत्र में अण् प्रत्याहार परणकार (लण् सूत्र का णकार) तक माना जाता है ।। १ ।।